________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 452 उपमितिभवप्रपञ्चा कथा / तासु सर्वासु मे तात प्रावीण्यं वर्तते परम् / आत्मतुल्यं न पश्यामि त्रैलोक्येऽप्यपरं नरम् // सुतस्नेहेन तच्छ्रुत्वा तातो हर्षमुपागतः / चुम्बित्वा मूर्धदेश मामिदं वचनमब्रवीत् // जात चारु कृतं चारु सुन्दरस्ते महोद्यमः / किं त्वेकं मे कुमारेण वचनं श्रूयतामिति // मया भिहितं / वदतु तातः / तातेनाभिहितं / विद्यायां ध्यानयोगे च स्वभ्यस्तेऽपि हितैषिणा। सन्तोषो नैव कर्तव्यः स्थैर्य हितकरं तयोः // एवं च स्थिते। ग्रहीतानां स्थिरत्वेन शेषाणां ग्रहणेन च / कलानां मे कुमारत्वे त्वं पुषाण मनोरथान् // मयाभिहितं / एवं भवतु / ततो गाढतरं तुष्टस्तातः। दत्तो भाण्डागारिकस्यादेशः। अरे पूरय महामतिभवनं धनकनकनिचयेन येन कुमारः मकलोपभोगमम्पत्त्या निर्व्यग्रस्तत्रैव कलाग्रहणं कुर्वनास्ते / ततो यदाज्ञापयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजगासनं। महामतिनापि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं ताताय मदौयविलसितं। ततोऽभिहितोऽहं तातेन। वत्स अद्यदिनादारभ्य स्थिरीकुर्वता पूर्वग्रहोतं कलाकलापं ग्टलता चापूर्वं तत्रैवोपाध्यायभवने भवता स्थातव्यमहमपि न द्रष्टव्यः / मयाभिहित। एवं भवतु / जातश्च मे हर्षः / ततस्तातममोपानिर्गतेन मया मृषावादं प्रत्यभिहितं / वयस्य For Private And Personal Use Only