________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पू० उपमितिभवप्रपञ्चा कथा। लुधमर्थप्रदानेन क्रुद्धं मधुरभाषणः / मायाविनमविश्वासात् स्तब्धं विनयकर्मण / चौरं रक्षणयनेन सद्बुड्या पारदारिकम् / वशीकुर्वन्ति विद्वांसः शेषदोषपरायणम् // न विद्यते पुनः कश्चिदुपायो भुवनत्रये / असत्यवादिनः पुंसः कालदष्टः स उच्यते / यतः / सर्वेऽपि ये जगत्यत्र व्यवहाराः शुभेतराः / मत्ये प्रतिष्ठिता नेदं यस्यासौ नवलौकिकः / / अतो विज्ञाय यत्नेन मत्यहीनं नराधमम् / त्यजन्त्येव सुदूरेण प्रियसत्या महाधियः / ततोऽयं मत्यहीनत्वादस्माकं रिपुदारणः / सम्यगविज्ञातगौलानां न मध्ये स्थातुमर्हति // अथवा नास्य वराकस्य रिपुदारणस्यायं दोषो यतोऽयमनेन शैलराजेन प्रेर्यमाणस्तावत्मकलदुर्विनयमाचरति। तथानेन मृषा वादेन प्रोत्साह्यमानः खल्वयमेवं भाषते / ततो यद्यतौ पापवयस्यौ परिहरति तदर्थं शिचयामि तावदेनं। ततः कृतोऽहमुत्मारके महामतिनाभिहितश्च / कुमार नेदृशानां स्थानमिह मदीयशालायां। अतः कदाचिदेतौ पापवयस्यौ परिहर यदि वा भागन्तव्यमिह कुमारेणेति। मयाभिहितं। त्वमात्मीयजनकाय खस्थानं प्रयच्छ / वयं तु त्वदीयस्थानेन वयापि च विनैव भविष्यामहे / ततश्चैवंविधैस्तिरस्कृत्य परुषवचनैरुपाध्यायमुनामितया For Private And Personal Use Only