________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 44 यथेष्टचेष्टया समागतः कलोपाध्यायः / कथितं तस्मै राजदारकैर्मदीयविश्वमितं / क्रुद्धः स्वचेतसा / पृष्टोऽहमनेन। ततः सासूयं मयाभिहितं / अहमेतत्करोमि। अहो ते शास्त्रकौशलं अहो ते पुरुषविशेषज्ञता अहो ते विचारितभाषिता अहो ते विमर्शपाटवं यस्त्वमेतेषां मत्मरिणामसत्यवादिनां वचनेन विप्रतारितो मामेवमाभाषसे। ततो विलक्षीभूतः कलोपाध्यायः / चिन्तितमनेन / न तावदेते राजदारका विपरीतं भाषन्ते। अयं तु स्वकर्मपराधमेवमपलपति। तदेनं स्वयमुपलभ्य शिक्षयिष्यामि। अन्यदा प्रच्छन्न देशस्थितेनावरक्षितोऽहं तेन महामतिना। दृष्टस्तत्र वेत्रासने मरभसमुपविष्टो ललमानः / ततः प्रकटौभूतोऽसौ दृष्टो मया। मुक्तं झगिति वेत्रासनं। महामतिनाभिहितं। इदानौं तर्हि भवतः किमुत्तरं। मयोक्तं / कीदृशे प्रश्ने। महामतिराह / तत्रैव पूर्वके / मयोकं / न जानाम्यहं कीदृशोऽसौ पूर्वकः प्रश्नः / महामतिराह। किमुपविष्टस्त्वमत्र वेत्रामने न वेति / ततो हा मान्तं पापमिति ब्रुवाणेन पिहितौ मया कण / पुनर भिहितं / पश्यत भो मत्सरविलसितं यदेते स्वयमकार्यं कृत्वा ममोपर्यवमारोपयन्ति / महामतिना चिन्तितं। अहो सेयं दृष्टेऽप्यनुपपन्नता नाम / अहो अस्य धार्य अवैद्यकः खल्वयं / इयत्तातः परमसत्यवचनस्य / राजदारकैरभिहितमेकान्ते विधाय कलाचायें। यदुताद्रष्टव्यः खल्वयं पापः / तत्किमेनमस्माकं मध्ये धारयत ययं / महामतिना चिन्तितं / सत्यमेते तपखिनः प्रवदन्ति / नोचित - मेवायं रिपुदारण: सत्सङ्गमस्य / तथाहि। For Private And Personal Use Only