________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 886 उपमितिभप्रपञ्चा कथा / यो हि दद्यादपात्राय मंज्ञानममृतोपमम् / म हास्यः स्यात्मतां मध्ये भवेचानर्थभाजनम् // न चैष शक्यते कर्तुं नम्रो यत्नशतैरपि / को हि खेदशतेनापि श्वपुच्छं नामयिष्यति // ततश्चैवं स्वचेतस्यवधार्य तेन महामतिना कलाचार्यण शिथिलितो ममोपरि कलाशास्त्रग्राहणानुबन्धः परित्यकमुपचारसंभाषणं दृष्टोऽहं धूलिरूपतया। तथापि तातलज्जया नामौ वहिर्मुखविकारमात्रमपि दर्शयति न च मनागपि मां परुषमाभाषते। दूतश्च तेऽपि राजदारकाः शैलराजमृषावाद निरतं मामुपलभ्य विरक्राश्चित्तेन। तथापि पुण्योदयेनाधिष्ठितं मां ते चिन्तयन्तोऽपि न कथंचिदभिभवितुं शक्नुवन्ति // दूतश्च यथा यथा तौ शैलराजमृषावादौ वर्धते तथा तथामौ मदीयवयस्यः पुण्योदयः छौयते / ततः कृणीभूते तस्मिन् पुण्योदये समुत्पन्ना मे गाढतरं गुरुपरिभवबुद्धिः। अन्यदा निर्गतो बहिः प्रयोजनेनोपाध्यायः / ततोऽधिष्ठितं मया तदीयं महाहं वेत्रामनं। दृष्टोऽहमुपविष्टस्तत्र राजदारकैः / ततो लज्जितास्ते मदौयकर्मणा / लघुध्वनिना चोकमेतैः / हा हा कुमार न सुन्दरमिदं विहितं भवता / वन्दनीयमिदं गुरोरामनं / न युक्तं भवादृशामस्थाक्रमणं / यतोऽस्मिन्नुपविशतां मंपद्यते कुलकलङ्कः समुल्लमति भृशमयशःपटहः प्रवर्धते पापं संजायते चायुषः चरणमिति। मयाभिहितं / अरे बालिशा नाहं भवादृशां शिक्षणाहः। गच्छत यूयमात्मीयं सप्तकुलं शिक्षयत / तदाकर्ण्य स्थितास्ते बोभावेन / ततः स्थित्वा तत्र वेत्रामने बहती वेलामुत्थितोऽहं / For Private And Personal Use Only