________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। ततः सञ्चिन्तयत्येवं वितीर्णं यदि लभ्यते / इदं मकलकल्याणकारणं भेषजत्रयम् // 33 // इदानी चारुपात्रेभ्यः प्रयच्छामि विशेषतः / पुनर्जन्मान्तरे येन संपद्यतेदमक्षयम् // 34 // तस्य चायमवष्टम्भो राजराजावलोकितः / धर्मबोधकरस्येष्टस्तद्दयापरिपूजितः // 35 // साधितः सर्वलोकेन सद्बुद्धेर्गाढवल्लभः / अहं सपुण्य कस्तेन लोके वर्ते किलोत्तमः // 36 // ततश्च / यदि मां कश्चिदागत्य प्रार्थयिष्यति मानवः / नदास्थामौति मन्वानो दित्सुरप्येष तिष्ठति // 37 // अत्यन्तं निर्गुणोऽप्यत्र महद्भिः कृतगौरवः / नूनं संजायते गर्यो यथायं द्रमकाधमः // 38 // तत्र ये मन्दिरे लोकास्ते सर्व चयभोजनाः / तबलादेव निश्चिन्ताः संजाताः परमेश्वराः // 38 // प्रविष्टमात्रा विद्यन्ते तादृशा येऽपि निःस्वकाः / तेऽन्येभ्य एव तद् भूरि लभन्ते भेषजत्रयम् // 40 // ततो न कश्चित्तन्मले तदर्थमुपतिष्ठते / स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते // 41 // स्थित्वापि कालं भूयांसमलब्धप्रार्थकस्ततः / मबुद्धिं पुनरप्येष तदर्थं परिपृच्छति // 42 // मा प्राह भद्र निर्गत्य घोषणापूर्वकं त्वया / For Private And Personal Use Only