________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 उपमितिभवप्रपञ्चा कथा / स्था पितौ तादृशकुलपुत्रकरूपतया। प्रवृद्धः सोऽधिकतरमावयोवैरानुबन्धः। स्थितौ परस्परघातमनेकयातनाभिर्विदधानौ द्वाविंशति सागरोपमानि / अवगाहितोऽनन्तमहादुःखसागरः। ततस्तस्याः पर्यन्ते गुडिकादानेनैवानौतौ पञ्चाक्षनिवामनगरे द्वावपि भवितव्यतया विहितौ गर्भजसर्परूपौ। प्रादुर्भूतः पूर्वावेधेन परस्परं पुनः क्रोधाबन्धः / युध्यमानयोः संपन्नं गुडिकाजरणम्। पुनः प्रापितौ तेनैव प्रयोगेण तस्यामेव पापिष्ठनिवामायां नगयीं धूमप्रभाभिधाने पञ्चमे पाटके भवितव्य नया। तत्रापि परस्परं निर्दलयतो तानि सप्तदश मागरोपमानि। अनुभूतान्यतितीव्रःखानि // ततः पुनरानीय पञ्चाक्षनिवासनगरे विहितौ द्वावपि सिंहरूपौ / तत्रापि तदवस्थितो वैराबन्धः। ततश्चान्योन्यं प्रहरतोरपनीय तद्रूपं विहितं तस्यामेव पुयीं पङ्कप्रभाख्ये चतुर्थपाटके पापिष्ठरूपं भवितव्यतया। तहतयोः पुनरप्यावयोरनुवर्तते स्मासौ रोषोत्कर्षः / लविता नि तत्रापौतरेतरं निघ्नतोर्दश मागरोपमानि / मोढानि वाग्गोचरातीतानि दुःखानि // ततः पुनरानौय जनितौ द्वावपि श्येनरूपौ। संलग्न मुल्लसितवैश्वानरयोरायोधनं / ततश्यावयित्वा तद्रूपं पुनर्नीतौ तस्यामेव पुरि वालुकाप्रभानाम्नि हतीयपाटके गुडिकाप्रयुक्तिवशेनैव भवितव्यतया। तत्रापि परस्परं शरीरचूर्णनं कुर्वतोः क्षेत्रानुभावजनितानि परमाधार्मिकासुरोदौरितानि चानन्तदुःखानि सततमनुभवतोरतिक्रान्तानि सप्त सागरोपमानि। तदन्ते पुनरानौतौ पञ्चाक्षनिवासनगरे दर्शितौ च नकुलरूपौ भवितव्यतया। न त्रुटितस्त्रत्रापि परस्परं मत्सर For Private And Personal Use Only