________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 431 परपदाभिलाषातिरेकसंवर्धनो धर्मदेशना। गता यथास्थानं देवादयः // मम पुनरग्टहौतमङ्केते तदमृतकल्पमपि न परिणतं तदा भागवतं वचनं / निकटीभूतौ हिंसावैश्वानरौ। कृतः पुनस्ताभ्यां मम शरौरेऽनुप्रवेशः / मोचितश्चाह बन्धनात् सर्वजन्तूनां बन्धनमोचनाथें नियुक्त राजपुरुषैः। चिन्तितं च मया। विगोपितोऽहमनेन लोकमध्ये श्रमणेन / ततो धमधमायमानश्चेतमा किमत्र स्थितेनेति मन्यमानः प्रवृत्तो विजयपुराभिमुखो गन्त / लवितः कियानपि मार्गः। इतश्च तत एव विजयपुरारिशखरिनृपतेः सूनुमत्कल्प एव हिंसावैश्वानरदोषेण निर्वामितः खविषयाजनकेन दृष्टो मयारण्ये प्रातिपथिको धराधरो नाम तरुणः / पृष्टो मया विजयपुरमार्ग। ततः पर्याकुलतया चित्तस्य न श्रतं तेन मद्दचनं / मया चिन्तितं। परिभवबुद्ध्या मामेष न गणयति। ततः समुल्लसितौ मे हिंसावैश्वानरौ। ग्टहीता तत्कटौतटादमिपुत्रिका। ततस्तेनापि विस्फुरितहिंसावैश्वानरेणैव समावष्टं मण्डलायं। दत्तौ समकमेव दाभ्यामपि प्रहारौ। दारिते शरीरे // अत्रान्तरे मम तस्य च जीर्णा सा एकभववेद्या गुडिका। ततो वितीर्ण अपरे गुडिके दयोरपि भवितव्यतया / दूतश्चास्ति पापिष्ठनिवासा नाम नगरौ / तस्यामुपयुपरि सप्त पाटका भवन्ति / तेषु च पापिष्ठाभिधाना एव कुलपुत्रका वमन्ति / ततः षष्ठे तमाभिधाने पाटके नौती द्वावपि गडिकाप्रभावेण भवितव्यतया For Private And Personal Use Only