________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 423 मस्वाभाविकमेकान्तेना हितकरणशीलं संसारकारणं च तत्किमितीमे जौवा गाढतरमिदं पोषयन्ति / भगवानाह। महाराजाकर्णयात्र कारणं। एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनानादौ संसारे सकलकालमभिभूतमास्ते। ततो भयात्तिरोभावं गतस्य तस्य न संपन्न कदाचिदभिव्यक्तं दर्शनं / ततो न लक्षयन्त्येते वराका जौवास्तत्सम्बन्धिनं गुणकलापं / तेन न तस्योपरि गाढमादरं कुर्वन्ति / विद्यमानमपि तदविद्यमानं मन्यन्ते / तस्य गुणनपि वर्णयन्तमम्मदादिकं न गणयन्ति / एतत्पुनर्दितौयं कुटुम्बकमनादौ संमारे शत्रुभूतस्याद्यकुटुम्बकस्य निराकरणदवाप्तजयपताकं लब्धप्रसरतया वल्लगमानं प्रायेण सकलकालमाविर्भूतमेवास्ते / ततः संपद्यते तेन महामोषां जौवानामहर्निशं दर्शनं / ततो वर्धते प्रेमाबन्धः समुत्पद्यते चित्तरतिः मंजायते विश्रम्भः प्रादुर्भवत्यनेन मह प्रणयः / ततोऽस्य द्वितीयकुटुम्बकम्य सततमनुरक्रमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं ममारोपयन्यस्यासन्तमपि गुणसन्दोहं / तेनेदं गाढतरमेते पोषयन्ति / इदमेवेक परमबन्धभूतमस्माकमिति मन्यन्ते / अस्य च दोषप्रकाशकमस्मदादिकं शत्रुबुद्ध्या ग्टहन्ति / नृपतिराह / भदन्त सुन्दरं भवति यद्येते तपखिनो जौवा अनयोः कुटम्बकयोर्गुणदोषविशेषमवगच्छेयुः। भगवानाह। किमतःपरं सुन्दरतरं / एतावन्मात्रमेव हि निःशेषकल्याणानि वाञ्छता परमार्थतः पुरुषेण कर्तव्यं यदुतानयोः प्रथमद्वितीययोः कुटुम्बकयोर्गुणदोषविशेषपरिज्ञानमिति / तथास्माभिरपि जीवानां धर्मकथाभिरेताचन्मात्रमेव संपादनौयं। केवलमेते जौवाः स्वयोग्यतामन्तरेण For Private And Personal Use Only