SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 822 उपमितिभवप्रपञ्चा कथा / विरतिप्रभृतयो यत्र बान्धवाः तदिदं द्वितीयं कुटुम्बकं / तथा शरीरं तदुत्पादकौ स्त्रीपुरुषावन्ये च तथा विधा लोका यत्र सम्बन्धिनः तदिदं बतौयं कुटुम्बकं। कुटुम्ब त्रितयद्वारेण चासंख्याताः स्वजनवर्गाभवन्ति / तत्र यदिदमाद्यं कुटुम्बकमेतज्जीवानां स्वाभाविकमनाद्यपर्यवसितं हितकरण शौलमा विर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते मोक्षप्रापकं च / यतः प्रकृत्यैवेदं जीवमुपरिष्टान्नयति / यत्पुनरिदं द्वितीयं कुटम्बकमेतज्जौवानामस्वाभाविकं / तथाप्यविज्ञातपरमार्थजन्तुभिर्टहीतं तगाढतरं स्वाभाविकमिति / तदनाद्यपर्यवसितमभव्यानां अनादि सपर्यवसितं केषांचिगव्यानां एकान्तेनाहितकरणशौलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते संमारकारणं च / . यतः प्रकृत्यैवेदं जीवमधस्तात्यातयति / यत्पुनरिदं हतीयं कुटम्बकमेतजौवानामस्वाभाविकमेव तथा सादि सपर्यवमितमनियतसद्भावं च / यथा भव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहि रङ्गं च वर्तते तथा भव्यतया संसारकारणं मोक्षकारणं वा भवति / यतो बाहुल्येन द्वितीयकुटुम्बकस्थावष्टम्भकारकमिदमतः संसारकारण / यदि पूनः कथंचिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे महायं स्यात् / ततश्च मोक्षकारणतां प्रतिपद्येत / तदेवंस्थिते महाराज यदिदं द्वितीयं कटुम्बकमस्य मध्ये सर्वेषां संसारिजौवानामेष वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव / नात्र सन्देहो विधेयः / नृपतिराह / भदन्त यदौदमाद्यं कुटुम्बकं खाभाविकं हितकरणशौलं मोक्षकारणं च तत्किमितीमे जौवा गाढं नेदमाद्रियन्ते। यदि चेदं द्वितीयकटम्बक For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy