________________ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra टतीयः प्रस्तावः / 421 न मोक्षमार्गलेशेन कथंचिदपि युज्यते // ततो जाननपि बलात्युन मे महोदधौ / निर्वालं याति मोहान्धो यथायं नन्दिवर्धनः // नृपतिनाभिहितं / भगवंस्तस्य नन्दिवर्धनस्य किमियतापि प्रपञ्चेन कथ्यमाने स्वसंवेदनमंसिद्धेऽपि निजचरिते संजातः प्रबोधः / भगवताभिहितं / महाराज न केवलमम्य प्रतिबोधाभावः किं तर्हि मयि कथयति प्रत्युताम्य महानुद्वेगो वर्तते / नृपतिराह / किमभव्योऽयं / भगवतोतं / नाभव्यः किं तर्हि भव्य एव / केवलमयमस्यैव वैश्वानरस्य दोषो यन्मदौयवचनं न प्रतिपद्यते / यतोऽयमनन्तोऽनुबन्धोऽस्येति कृत्वा अनन्तानुबन्धौति योयनाम्ना मुनिभिर्गोयते / ततोऽत्र विद्यमाने न सुखायते मदीयवचनं उत्पादयत्यरतिं जनयति कलमलकं / ततः कुतोऽस्य तपस्विनः प्रबोधः। पर्यटितव्यमद्याप्यनेन नन्दिवर्धनेनास्य वैश्वानरस्य प्रसादादपरापरस्थानेषु दुःखमनुभवतानन्तं कालं प्राप्तव्या च वैरपरंपराः / नृपतिराह / भदन्त महारिपुरेषोऽस्य वैश्वानरः / भगवतोतं / पर्याप्तमियत्या महारिपुतया / नृपतिराह / किमस्यैवायं वयस्यः किं वान्येषामपि जन्तुनां / भगवानाह / यदि महाराज स्फुटं प्रश्रयसि ततस्तथा ते कथयामि यथा पुनः प्रष्टव्यमिदं न भवति / नृपतिराह। अनुग्रहो मे / भगवता भिहितं / दह सर्वेषां जौवानां प्रत्येकं त्रीणि ७ौणि कुटुम्बकानि / तद्यथा / शान्तिमार्दवावमुनिज्ञानदर्शनवीर्यसुखसत्यगौचतपःसन्तोषादौनि यत्र ग्रहमानुषाणि तदिदमेक कुटुम्बकं / तथा क्रोधमानमायालोभरागद्वेषमोहाज्ञानपोकभया For Private And Personal Use Only