________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 420 उपमितिभवप्रपञ्चा कथा / चिन्तारत्नस्य काचेन यावत्तावगुणान्तरम् // एवं च ज्ञातमाहात्म्यैः संसारे ब्रूहि तत्त्वतः / ईदृक्षधर्मसम्प्राप्तिर्भूप केनोपमीयताम् // एवं स्थिते / एनं संसारविस्तारं विलंध्य कथमप्यदः / मानुष्यं प्राप्य दुष्पापं राधावेधोपमं जनः // यो जैनमपि संप्राप्य शासनं कर्मनाशनम् / हिंसाक्रोधादिपापेषु रज्यते मूढमानमः // संहारयति काचेन चिन्तामणिमनुत्तमम् / करोत्यङ्गारवाणिज्यं दग्ध्वा गोशीर्षचन्दनम् / / भिनत्ति नावं मूढ़ात्मा लोहाथै स महोदधौ / सूत्रार्थ दारयत्युच्चैर्वैडूर्य रत्नमुत्तमम् // प्रदीपयति कौलार्थ देवद्रोणणे महत्तमाम् / रत्नस्थाल्यां पचत्यांलखलकं मोहदोषतः // सौवर्णलाङ्गलागेण लिखित्वा वसुधां तथा / अर्कवीजं वपत्येष बला) मूढमानमः // छित्त्वा कर्पूरखण्डानि कोट्रवाणां समन्ततः / वृतिं विधत्ते मूढोऽयमहं मश्रुतिकः किल // यतः / हिंमाक्रोधादिपापेषु जन्तोरासतचेतसः / मद्धोऽयं जिनेन्द्रोक्तो दूरादरेण गच्छति // मद्धर्मरहितश्चासौ पापपूरितमानसः / For Private And Personal Use Only