________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 416 श्राददते परधनं ग्टध्यन्ति विषयोपभोगेषु पाचरन्ति महापरिग्रहं भजन्ते रजनौभोजनानि / तथा मुह्यन्ति शब्देषु मूर्छन्ति रूपेषु लुभ्यन्ति रसेषु हप्यन्ति गन्धेषु प्रापिलव्यन्ति स्पर्शषु द्विषन्ति चानिष्टशब्दादीन भ्रमयन्ति पापस्थानेषु सततमन्तःकरणं न नियन्त्रयन्ति भारतौं उच्छृङ्खलयन्ति कायं भज्यन्ते दूरेण तपश्चरणात्। ततोऽयं मनुष्यभवो मोक्षाक्षेपकारणभूतोऽपि तेषामधन्यतया न केवलं न किंचिद्गुण लवलेशमात्रमपि माधयति किं तर्हि यथास्य नन्दिवर्धनस्य तथैव प्रत्युतानन्तदुःखपरंपराकुलसंमारकारणतां प्रतिपद्यते। तथाहि प्राप्तोऽयं मनुथ्यभवोऽनादौ संसारे पूर्वमनन्तवारान् न च मद्धर्मानुष्ठानविकलेनानेन किंचित्माधितं / अत एवास्माभिः पूर्व भगवद्धर्मस्यात्यन्तदुर्लभता प्रतिपादिता / तथाहि / पद्मरागेन्द्रनौलादिरत्नसङ्घातपूरितम् / लभ्यते भवनं राजन्न तु जैनेन्द्र शासनम् // मम्मृद्धं कोषदण्डाभ्यामेकच्छत्रमकण्ठकम् / सुप्रापमोदृशं राज्यं न तु धर्मो जिनोदितः // संपूर्णभोगसम्प्राप्तिपौणितेन्द्रियमानसम् / सुलभं नृपदेवत्वं न मतं पारमेश्वरम् // संसारे परमैश्चर्यकारणं भूप लभ्यते / इन्द्रत्वमपि जौवेन न धर्मो जिनदेशितः // एते हि भावा राजेन्द्र संसारसुखकारणम् / सद्धर्मस्तु सुनौन्द्रोको निर्वाणसुखकारणम् // निर्वाणसुखसंसारसुखयोश्च परस्परम् / For Private And Personal Use Only