________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 उपमितिभवप्रपञ्चा कथा / कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये / तत्र च निवसतामेतेषामेत एव क्रोधमानमायालोभास्रवद्वारादयोऽन्तरङ्गः परिजनः / यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जौवाः सिध्यन्ति तावन्त एवामांव्यवहारिकजीवराशिमध्यादागच्छन्तीति केवलिवचनं / ततो निर्गताश्चैतेऽपि मर्व जौवा विडम्बिता भूयांसं कालमेकेन्द्रियेषु विनाटिता विकलेन्द्रियेषु विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु कदर्थिता नानाविधानन्तदुःखैः कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्मजालविपाकोदयद्वारेण भवितव्यतया भ्रमिताश्चारघट्टघटीयन्त्रन्यायेन सूक्ष्मवादरपर्याप्तकापर्याप्तकपृथिव्यप्तेजोवायुवनस्पतिद्वौन्द्रियत्रीन्द्रियचतुरिन्द्रियसंझ्यसंजिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरादिभेदविवर्तन सर्वस्थानेषु प्रत्येकमनन्तवाराः / ततः कैश्चिन्नौवैः कथंचिन्महामागरपतितैरिव रत्नदीपं महारोगभराक्रान्तैरिव महाभेषजं विषमूर्छितैरिव महामन्त्री दारिद्र्याभिभूतैरिव चिन्तामणि: प्राप्यतेऽतिदुर्लभोऽयं मनुष्यभवः / तत्रापि महानिधिग्रहण व वेताला भृशमाविर्भवन्येते हिंसाक्रोधादयो दोषा यैरभिभूतास्तिष्ठन्तु तावदेते प्रबलमहामोहनिद्राघर्णितमानसा नन्दिवर्धनमङ्गुला वराकसत्त्वाः किं तर्हि येऽपि जिनवचनप्रदौपेन जानन्येनं भवप्रपञ्चं लक्षयन्ति मनुष्यभवदुर्लभतां बुध्यन्ते संसारसागरतारकं धर्म वेदयन्ते स्वसंवेदनेन भगवदचनाथें निश्चिवन्ति निरुपमानन्दरूपं परमपदं तेऽपि बालिशा व प्रवर्तन्ते परोपतापेषु भवन्ति गर्वाधाताः कुर्वन्ति परवचनानि रज्यन्ते द्रविणोपार्जनेषु व्यापादयन्ति सत्त्वसंघातं भाषन्तेऽलोकवचनानि For Private And Personal Use Only