SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 417 पद्मराजग्टहे निवसतोऽस्याविभूताविमौ / पूर्व तिरोभूतौ स्थितौ / नृपतिराह / किमनादिरूपोऽयं नन्दिवर्धनकुमारः। भगवानाह / वाढं। नृपतिराह। तत्किमित्ययं पद्मराजपुत्रतया प्रसिद्धः / भगवानाह / मिथ्याभिमानोऽयमस्य यदुत पद्मराजपुत्रोऽहं / श्रतो नात्रास्था विधेया। नृपतिनो कं / भदन्त तत्परमार्थतः कुतस्त्योऽयमवधार्यतां। भगवता भिहितं। असंव्यवहारनगरवास्तव्यः कुटुम्बिकोऽयं मंसारिजौवनामा कर्मपरिणाममहाराजादेशेन लोकस्थितिनियोगमुररीकृत्य स्वभार्यया भवितव्यतया ततो नगरान्निःसारितोऽपरापरस्थानेषु पर्यटन् धार्यत इत्यवधारणीयं। नृपतिराह। भदन्त कथमेतदिति मप्रपञ्चामस्य वक्तव्यतां श्रोतुमिच्छामि। भगवानाह। महाराजा कर्णय / ततः कथितो भगवता समस्तोऽपि विस्तरेण मदीयव्यतिकरः। ततः क्षुमतया भगवद्द नेऽरिदमनस्य विमलतया बोधस्य प्रत्यायकतया भगवद्वचनस्य लघुकर्मतया जीवस्य प्रत्यामन्नतया महाकल्याणस्य परिस्फुरितमस्य हृदये। अये भगवता विमलकेवलालोकेनोपलभ्यास्य नन्दिवर्धनकुमारस्य सम्बन्धी भवप्रपञ्चोऽयमनेन व्याजेन प्रतिपादितः / ततो ऽभिहितमनेन / भदन्त यथैवं मयावधारितं तथैवेदमुतान्यथेति / भगवानाह / महाराज तथैव / मार्गानुसारिणौ हि भवतो बुद्धिः / तत्कुतस्तत्रान्यथाभावः। नृपतिनाभिहितं। भदन्त तत्किमस्यैव नन्दिवर्धनस्यायं वृत्तान्तः किं वान्येषामपि प्राणिनामिति / भगवानाह / महाराज मर्वषां संसारोदरविवरवर्तिनामसुमतामेष व्यतिकरः प्रायेण ममावर्तते / तथाहि / स्थिताः सर्वेऽप्येतेऽनादिक 53 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy