________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 416 उपमितिभवप्रपचा कथा / तेनानयोः पापभावियस्ययोः स्वरूपविपर्यासकारिणोर्वशे वर्तते / तथा च वर्तमानोऽयमेवंधिामनन्तदुःखहेतुभूतामनर्थपरंपरामासादयति // नृपतिनाभिक्तिं। भदन्त स्फुटवचनव्यतिकरात्पूर्वमस्माभिः श्रुतमासौ लोकवार्त्तया। यदुतानेन नन्दिवर्धनकुमारेणोत्पद्यमानेनानन्दितं पद्मराजकुलं वर्धितं कोशदण्डसमृध्या तोषितं नगरं। वर्धमानेन पुनराहादिताः प्रकृतयो विस्तारितो गुणप्रारभारः प्रतापेन वशीकृतं भूमण्डलं निर्जिताः शत्रवः ग्रहौता जयपताका समुल्लसितो यशःपटहः सिंहायितं भूतले अवगाहितः सुखामृतसागरः। तत् किं तदास्य नास्तामेतौ पापभार्यावयस्यौ यदीमौ दुःखपरंपराकारणभूताविति / भगवताभिहितं / महाराज तदाण्यास्तामेतौ किं तु तदान्यदेव कल्याणपरंपराकारणमासीत् / नृपतिराह। किं तत् / भगवतो / पुण्योदयो नाम सहचरः। स हि विद्यमानः खकौयप्रभावेण मर्वेषामेषामनन्तरोक्तानां पद्मराजकुलानन्दजननादौनां प्रयोजनविशेषाणां संपन्नः कारणं / केवलं महामोहवशान लक्षितोऽनेन नन्दिवर्धनेन तदीयः प्रभावः / पुण्योदयमाहात्म्यजातमपि कल्याणकदम्बकं हिमावैश्वानरप्रतापजनितं ममैतदित्येवमेष मन्यते स्म। ततोऽयमविशेषज्ञ इति मत्वा विरक्तोऽसौ पुण्योदयः / नष्टो ग्टहीत्वैकां दिशं स्फुटवचनव्यतिकरावसरे। ततस्तबिकलस्यास्य मन्दिवर्धनकुमारस्थेदमनर्थकदम्बकमाभ्यां हिंसावैश्वानराभ्यां संपादितमिति। नृपतिराह। भदन्त कियान्युनः कालोऽस्य हिंसावैश्वानराभ्यां मह सम्बन्धस्य / भगवताभिहितं / अनादिपरिचितावस्येमौ हिंसावैश्वानरौ। केवलमत्र For Private And Personal Use Only