________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयः प्रस्तावः। नृपतिराह / तर्हि नारी केयं / भगवताभिषितं / एषा देषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंमोच्यते / नृपतिनाभिहितं / अनेन नन्दिवर्धनकुमारेण महानयोः कः सम्बन्धः / भगवानाह / अस्यान्तरङ्गे एते मित्रभार्ये भवतोऽनयोश्च समर्पितहदयोऽयं न गणयति खकमर्थान) नापेक्षते धर्माधर्म न लक्षयति भक्ष्याभक्ष्यं नाकलयति पेयापेयं न जानौते वाच्यावाच्यं नावगच्छति गम्यागम्यं न बुध्यते हिताहितविभागं / ततो विस्मरन्ति स्वभ्यस्ता अपि समस्ताः क्षणमात्रेण निजगुणाः / परावर्तते निःशेषदोषपुञ्जतयास्थात्मा / ततो महाराज नन्दिवर्धनेनानेन बालकाले कदर्थिता निरपराधा दारकाः खलीकृतः कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः / तथा तरुणेन मता घातिताः प्राणिसंघाताः विहिता महासङ्ग्रामाजनितो जगत्मन्तापः परमोपकारिणौ बान्धवावपि मारयितुमारचौ तिरस्कृतौ कनकचूडकनकशेखरौ / तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन महाकाण्डभण्डनं तन्मारणं च तथा जननौजनकमहोदरभगिनौप्रियभार्यादिव्यापादानं नगरदहनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तनिवेदितमेव युभाकं / स एष महाराज समस्तोऽप्यनयोरेव पापयोहिंसावैश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातो न पुनः स्वयमस्य तपखिनो नन्दिवर्धनकुमारस्य दोषगन्धोऽप्यस्ति / तथाह्ययं स्वरूपेण स्थानमनन्तज्ञानस्य भाजनमनन्तदर्शनस्य पात्रमनन्तवीर्यस्य निलयनमनन्तसुखस्य कुलभवनमपरिमितगुणानां। न चेदृशमात्मस्वरूपमद्याप्येष वराको लक्षयति / For Private And Personal Use Only