________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 410 उपमितिभवप्रपञ्चा कथा / मुत्कलोऽस्माकमपि केनचिदकाण्डविड्वरसम्पादनेन धर्मकथाश्रवणविघ्नहेतः स्यात् / तस्मात्तावदयं यथान्यासमेवास्तां / पश्चादुचितं करिष्यामः / अस्थानं चैष करुणायाः यस्येदृशं चरितं / तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः / ततोऽभिहितं नृपतिना / भदन्त नन्दिवर्धनकुमारोऽस्माभिरेवंगुण: समाकर्णितः / यद्त / वीरो दक्षः स्थिरः प्राज्ञो महासत्त्वो दृढव्रतः / रूपवानयमार्गज्ञः सर्वशास्त्रविशारदः // गुणानां निकषस्थानं प्रख्यातपरपौरुषः / अतोऽनेन महापापं कथं चेष्टितमौदृशम् // सूरिणाभिहितं राजन्नास्य दोषस्तपखिनः / तादृग्गुणगणोपेतः स्वरूपेणेष वर्तते // राजाह ननु कस्यायं दोषो नाथ विवेद्यताम् / यद्येवमात्मरूपेण निर्दोषो नन्दिवर्धनः // ततो गुरुणाभितं / यदेतदृश्यते दूरवर्त्ति कृष्णरूपं मानुषद्वयं अस्यैष समस्तोऽपि दोषः / ततो नरपतिना विस्फारितं तदभिमुखमौक्षणयुगलं / निरूपितं बहतों वेलां तन्मानुषदयं / गदितं चानेन / भगवन्नेकोऽत्र मनुय्यो द्वितीया नारीति लक्ष्यते / भगवताभिहितं / सम्यगवधारितं महाराजेन / नृपतिराह / भदन्त कोऽयं मनुष्यः / भगवताभिहितं / एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सूनुरविवेकितानन्दनो वैश्वानरोऽभिधीयते / अस्य हि जननौजनकाभ्यां प्रथम क्रोध इति नाम प्रतिष्ठितं / पश्चात्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपवं / For Private And Personal Use Only