________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 उपमितिभवप्रपञ्चा कथा / नानयोर्विशेषं कथंचिदपि ज्ञापयितुं शक्यन्ते / तेनायोग्येषु वयमपि गजनिमौलिकां कुर्मः / यदि पुनः सर्वेऽपि जौवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदादित एव संसारोच्छेदः स्यात् / ततो निराकृत्येदं द्वितीयं कुटुम्बकं मर्वेऽपि जौवा मोक्षं गच्छेयुरिति। नृपतिराह / यद्येवमशक्यानुष्ठानं मर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया / अस्माभिर्विज्ञातस्तावद्भगवत्पादप्रसादेनानयोः कुटुम्बकयोर्गुणदोषविशेषः / ततः सिद्धं नः ममोहितं / यतः / परोपकारः कर्तव्यः सत्यां शतौ मनीषिणा / परोपकारासामर्थ्य कुर्यात्वार्थ महादरम् // भगवानाह / न परिज्ञानमात्रं त्राणं / नृपतिराह। यदन्यदपि विधेयं तदादिशन्तु भगवन्तः। भगवतोतं / अन्यदत्र विधेयं श्रद्धानमनुष्ठानं च। तच्चास्त्येव भवतः श्रद्धानं अनुष्ठानं च / पुनयदि शक्रोषि ततः मिध्यत्येव समौहितं नात्र मन्देहः / केवलं तत्रातिनिघृणं कर्म समाचरणौयं / नृपतिराह ! भदन्त को दृशं तत्कर्म / भगवानाह / यदेते माधवः सततमनुशौलयन्ति / नृपतिराह। यदनुशौलयन्येते तच्छ्रोतुमिच्छामि। भगवतोतं / आकर्णय। अनादिस्नेहसंबद्धं द्वितीयं यत्कुटुम्बकम् / योधयन्ति तदाद्येन घोरचित्ता दिवानिशम् // तथाहि / निघृणा यत एवेदमाविर्भूतं कुटुम्बकम् / For Private And Personal Use Only