SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / गलदानन्दोदकप्रवाहचालितकपोलेन सिंहासनादुत्थाय समालिङ्गितोऽहं विभाकरेण / ततः किमेतदिति विस्मितं राजमण्डलं / ततो निवेश्यात्मीयार्धासनेऽभिहितोऽहमनेन। वयस्य कोऽयं वृत्तान्तः / ततः कथितं विभाकराय मयात्मचरितं / विभाकरः प्राह। हा कष्टं न सुन्दरमनुष्ठितं भवता यदिदमतिनिणं जननौजनकादिमारणमाचरितं / ततः अयमपौह जन्मन्येव क्लेशो भवतस्तस्यैव फलविपाकः। तच्छ्रुत्वा विस्फुरितौ ममान्तर्गतौ हिंमावैश्वानरौ। चिन्तितं मया। यथायमपि मे वैरिरूप एव यो मत्कर्तव्यमप्यसुन्दरं मन्यते। ततो जातो मे तन्मारणाभिप्रायः / तथापि दुर्बलतया देहस्य महाप्रतापतया विभाकरस्य संनिहिततया बहुराजवृन्दस्य अनिकटवर्तितया प्रहरणस्य न दत्तो मया प्रहारः / केवलं कृतं कालं मुखं / लक्षितो विभाकरण मदीयाभिप्रायः। यथा न सुखायतेऽस्य मदीयोऽयं जन्यः / तत् किमनेन संतापितेन। ततो विहितः प्रस्तुतकथाविक्षेपः / ज्ञापितं मामन्तमहत्तमादीनां / यथैष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वस्खं बन्धुर्धाता पूज्योऽद्य जातोऽहमस्य दर्शनेनातः कुरुत प्रियसमागममहोत्सवमिति / तैरभिहितं। यदाज्ञापयति देवः / ततः प्रवर्तितो महानन्दः / स्वपितोऽहं विधिना परिधापितो दिव्यवस्त्राणि भोजितः परमात्रैः विलेपितः सुरभिविलेपनेन भूषितो महालङ्कारैः। दत्तं खयमेव विभाकरेण मनोहारि ताम्बलं। मया वहमनेनेदमभिहितो यथा न सुन्दरमनुष्ठितं भवतेति ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरंपरादो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy