________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40. उपमितिभवप्रपञ्चा कथा / प्रतिपन्नमेतैः। गणितं प्रशस्तदिनं / कृताभिषेकमामग्रौ। समाहतोऽहं। विरचितं भद्रासनं। मौलिताः सामन्ताः। समागता नागरकाः / संनिधापितानि माङ्गलिकानि / प्रकटितानि रत्नानि / प्रत्यासन्नीभूतान्यन्तःपुराणि || अत्रान्तरे प्रविष्टा प्रतौहारौ / कृतं तया पादपतनं / विरचितं करपुटकुमलं निवेशितं ललाटपट्टे / गदितमनया। देव अरिदमननृपतेः सम्बन्धी स्फुटवचनो नाम महत्तमः प्रतीहारभूमौ तिष्ठति। एतदाकर्ण्य देवः प्रमाणं / तातेनाभिहितं / शीघ्र प्रवेशय / प्रवेशितः प्रतीहार्या। विहिता प्रतिपत्तिः। अभिहितं स्फटवचनेन / महाराज श्रुतो मया बहिरेव कुमारस्य यौवराज्याभिषेकव्यतिकरः। तेनाहं शुभमुहूर्ताऽयमिति कृत्वा स्वप्रयोजनसिद्धये त्वरिततरः प्रविष्टः। तातेनाभिहितं / सुन्दरमनुष्ठितं / निवेदयतु स्वप्रयोजनमार्यः। स्फुटवचनः प्राह / अस्ति तावद्विदित एव भवादृशां शार्दूलपुराधिपतिः सुग्रहौतनामधेयो देवोऽरिदमनः / तस्यास्ति विनिर्जितरतिरूपा रतिचल्ला नाम महादेवी। तस्याश्चाचिन्त्यगुणरत्नमञ्जूषा मदनमञ्षा नाम दहिता। तया च लोकप्रवादेनाकर्णितं नन्दिवर्धनकुमारचरितं / ततो जातस्तस्याः कुमारेऽनुरागातिरेकः / निवेदितः स्वाभिप्रायो रतिचूलायै / तथापि कथितो देवाय / ततस्तां मदनमञ्षां कुमाराय प्रदातुं युमत्समीपे प्रहितोऽहं देवेन / अधुना महाराजः प्रमाणम् // ततो निरीक्षितं तातेन मतिधनवदनम् / मनिधनः प्राह / देव महापुरुषोऽरिदमनः / युक्त एव देवस्य तेन माधु सम्बन्धः / ततोऽनुमन्यतामिदं तस्य वचनं। कोऽत्र विरोधः / For Private And Personal Use Only