________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतोयः प्रस्तावः। 366 म कर्मपरिणाममहानरेन्द्रः कुमारं प्रति मप्रसादो भविष्यनि तदा स्वयमेव भपरिणामेनास्मै कुमाराय दयादारिकां दापयिष्यति / किं च चिन्तया / अन्यच्च / लक्षयाम्येवाहं निमित्तबलेन कुमारम्य भव्यतामपेक्ष्य युक्तिबलेन च। यदुत नियमेन कचिकाले मप्रमादो भविष्यत्येनं कुमारं प्रति कर्मपरिणामो नात्र सन्देहः / ततश्च तस्मिन् काले श्रापृच्छय महत्तमभगिनों लोकस्थितिं पर्यालोच्य मह कालपरिणत्या निजभार्यया कथयित्वामौयमहत्तमाय स्वभावाय संभाल्य च स्वरमधुरवचनैरस्यैव नन्दिवर्धनकुमारस्य सम्बन्धिनौं समस्तभावान्तरानुयायिनौं प्रच्छन्नरूपामन्तरङ्गभायीं भवितव्यतां दौपयित्वा नियतियदृच्छादीनां कुमारवीर्य स्थापयित्वा दयादारिकादानस्य योग्योऽयमिति मर्वसमदं मिद्धान्तपक्षं ततो दापयिष्यत्येव स कर्मपरिणाममहाराजो दयादारिकां कुमाराय। निःसन्दिग्धमेतदतो मुञ्चत य्यमाकुलतां। तातः प्राह। तत्किमधुनास्माकं प्राप्तकालं / जिनमतज्ञेनोक् / मौनमवधौरणा च। तातेनाभिहितं। आर्य किमात्मपुत्रोऽम्माभिरवधौरयितुं शक्यत। जिनमतज्ञः प्राह। तत्किमत्र क्रियतां / यदि हि बहिरङ्गोऽयमुपद्रवः कुमारस्य स्यात्ततो न युज्येत कतुं तत्रभवतामवधोरणां / अयं पुनरन्तरङ्गोपद्रवो वर्तते / ततस्तमवधीरयन्तोऽपि भवन्तो नोपालम्भमर्हन्ति / ततो यदादिशत्यार्य इति वदता तातेन परिपूज्य प्रहितो नैमित्तिकः॥ गतानि कतिचिद्दिनानि / समुत्पन्नेयं तातस्य बुद्धिः। यथा स्थापयामि यौवराज्ये नन्दिवर्धनकुमारं। ज्ञापितं महत्तमानां / For Private And Personal Use Only