________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 उपमितिभवप्रपञ्चा कथा / अथवा। दया हितकरी लोके दया सर्वगुणावहा / दया हि धर्ममर्वस्वं दया दोषनिषदनौ / दयैव चित्तमन्तापविध्यापनपरायणा / दयावतां न जायन्ते नूनं वैरपरम्पराः // किं वात्र बहुनोकन गुणसम्भारगौरवम् / वहन्ती पद्मपत्राची मा दया केन वर्ण्यताम् // तदत्र परमार्थोऽयं महाराजाय कथ्यते / हिमायाः प्रलयोपायो नापरोऽत्र निरौक्ष्यते // यदैष तां दयां धौरः कुमारः परिणेष्यति / तदास्य स्वयमेवैषा दुष्टा भार्या विनंक्ष्यति // यतः / दूयं दाहात्मिका पापा मा पुनर्हिमगौतला / ततोऽनयोर्विरोधोऽस्ति यथा निजलयोः सदा // ततस्तातेनाभिहितं / आर्य कदा पुनरेष मन्दिवर्धनकुमारस्तां दयाकन्यकां परिणे व्यति / जिनमतज्ञेनाभिहितं। यदा शुभपरिणामो दास्यति / तातः प्राह / स एव तर्हि कदा दास्यति / जिनमतज्ञेनाभिहितं। यदा कुमारं प्रति प्रगुणो भविष्यति / तातेनाभिहितं। कस्तर्हि तस्य प्रगुणीभवनोपायः। जिनमतज्ञः प्राह / कथितं पूर्वमेवेदं मया भवतां / यथा तं शुभपरिणामनरेश्वरं यदि परं कर्मपरिणाममहाराजः प्रगुणयितुं समर्था नापरः / तदायत्तो यतोऽसौ वर्तते / तस्माकिमत्र बहुना। यदा For Private And Personal Use Only