________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / तस्याश्च भपरिणामसम्बन्धिन्याश्चारुताया महादेव्या श्राह्रादहेतुर्जगतः सुन्दरा रूपेण वल्लभा बन्धूनां कारणमानन्दपरम्परायाः सततं मुनौनामपि हृदयवासिनौ विद्यते दया नाम दुहिता / तथाहि / सर्वे चराचरा जौवा भुवनोदरचारिणः // दुःखं वा मरणं वापि नाभिकाङ्गन्ति सर्वदा // ततश्च / सा दया द्वयमप्येतदारयत्येव देहिनाम् / तेन मा भुवनालादकारणं परिकीर्तिता // मुखं शशधराकारं माभौर्दानाख्यमुत्तमम् / सद्दानदुःखत्राणाख्यौ दयायाः पौवरौ स्तनौ // विस्तीर्णं जगदानन्दं शमाख्यं जघनस्थलम् / यदा नास्त्येव तदेहे किंचिदङ्गमसन्दरम् // रूपेण सुन्दरा प्रोता तेन मा मुनिपुङ्गवः / यथेष्टा बन्धुवर्गस्य तथेदानौं निगद्यते // क्षान्तिः शुभपरिणामश्च चारुता निष्प कम्पता। शौचमन्तोषधैर्याद्या दयाया बान्धवा मताः // तेषां तु मतताह्लादकारिणी हृदयस्थिता / तेनातिवल्लभा प्रोक्ता बन्धुवर्गस्य मा दया / सुरेषु मर्त्यलोकेषु मोचे च मुखपद्धतिः / दयापरौतचित्तानां वर्तते करवर्तिनौ / श्रानन्दपद्धतेर्हेतुस्तेन मा कन्यका मता / श्रत एव सुमाधूनां हृदये सा प्रतिष्ठिता // For Private And Personal Use Only