________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ...तीयः प्रस्तावः / 361 दृष्टमनेनास्मदनौकं / ततस्तत्संनद्धमागतमभिमुखं / ततः संलग्नमायोधनं / तच कीदृशम् / रथौघघर्घरारवं गजेन्द्रगर्जिदारुणम् / महाश्व हेषितोडुरं पदातिशब्दभौषणम् // क्षणेन च तत्किंभूतं संपन्नम्। विदीर्णचक्रकूबरं विभिन्नमत्तकुञ्जरम् / विनाथवाजिराजितं पतत्पदातिमस्तकम् // प्रजातसैन्यतानवं प्रनष्टदेवदानवम् / असिग्रहप्रवर्धकं प्रनृत्तमत्कबन्धकम् // ततोऽभिभूता यवनराजसेनयास्मत्पताकिनी / समुल्लसितस्तवले कलकलः / ततो वलितोऽहमेककस्तदभिमुखं / ममापतितो मया सह योद्धं खयमेव यवनराजः / रणरभसेन चातीव मिलितो स्थन्दनौ / ततः स्थित्वाहं कूबराग्ने दत्त्वा करणं पतितस्तत्स्यन्दने / चोटितं स्वहस्तेन यवनराजस्य मस्तकं / ततः प्रादुर्भवत्तोषलमज्जयजयारवम् / अस्मद्दलं परावृत्य समायातं मदन्तिकम् // अन्यच्च / तदा / देवदानवगन्धर्वा वर्णयन्तः पराक्रमम् / मम गन्धोदवं पुष्पैर्मिश्रं मुञ्चन्ति मस्तके // ततश्च तत्परानौक क्षणेन हतनायकम् / जातं मे किङ्करं सर्वमाज्ञानिर्देशकारकम् // निर्गत्य नगरात्तातो हर्षण मह बन्धभिः / For Private And Personal Use Only