________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 उपमितिभवप्रपञ्चा कथा / नैवेदं देवाय ज्ञापनौयं / मतिधनः प्राह / कोऽत्र दोषः / बुद्धिविशालेनोनं / सुतवत्मलतया देवस्य कदाचिदेवं विधमङ्कटे नन्दिवर्धनागमनं न प्रतिभासते। तस्माद्देवस्याज्ञापनमेव श्रेयः / प्रज्ञाकरः प्राह / माधु माधुपपद्यमानं मन्त्रितं बुद्धिविशालेन / मतिधन किमत्रान्येन विकल्पेन / प्रेष्यतां कुमाराहानाय प्रच्छन्न एव दूतः थेन सर्वत्र शान्तिः संपद्यते / मतिधनेनाभिहितं / एवं भवत् / ततः सर्वरोचकेन प्रहितोऽहमिति // तदिदं दूतवचनमाकोल्लसितो वैश्वानरः / भविष्यति मम चारुतरोऽवसर इति प्रहसिता हिंसा / मयाभिहितं। अरे ताडयत प्रस्थानभेरिं। मज्जौकुरुत चतुरङ्गसेनां / तथा कृतं नियुक्तः / ततः मर्वबलेन चलितोऽहं / नाख्यातं कनकचडकनकशेखरयोः / केवलं कनकमञ्जरीवत्सलतया प्रवृत्ता मणिमञ्जरी। ततोऽनवरतप्रयाणकैः प्राप्ता वयं जयस्थलामन्ने। अभिहितो मया वैश्वानरः। यदुत वयस्य मततप्रवृत्ता ममाधुना तेजस्विता नापेक्षते वटकोपयोगं / तत्किमत्र कारणमिति। वैश्वानरेणाभिहितं / कुमार निष्कत्रिमभक्रियाह्या वयं। अतुला च ममोपरि कुमारस्य भक्तिः / मदौर्यप्रभवाणि चैतानि क्रूरचित्तानि वटकानि भकिमतामेव पुमां शरीरे प्रचरन्ति / तेन प्रचरितानि कुमारस्य शरीरे गतानि तन्मयतां / किं बहुना। मट्रप एवाधुना वौर्येण कुमारो वर्तते / अन्यच्च / कुमार मदीयवचनानुभावादेवेयमपि हिंसाधुना कुमारस्थ प्रतिपन्ना मात्मीभावं / नात्र मन्देहो विधेयः / मयाभिहितं। अद्यापि मन्देहः॥ ततो यावदेतावानावयोर्जन्यः संपद्यते स्म तावद्दर्शनवौथिमवतीर्ण परबलं / For Private And Personal Use Only