________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। मतां गर्हिते कुसंसर्ग वर्तते / नृपतिराह / कीदृशोऽस्य कुसंसर्गः / कनकशेखरेणाभिहितं / अस्त्यस्य स्वरूपोपतापहेतुः सर्वानर्थकारणं वैश्वानरो नाम वयस्यः / तथा विद्यतेऽस्य श्रूयमाणापि जगतस्त्रासकारिणौ महापापहेतुहिमा नाम भार्या / ताभ्यां प युक्तस्यास्येचुकुसुमस्येव निष्फलेव शेषगुणधवलता। नृपतिराह / यद्येवं ततस्तयोः पापयोस्त्याग एव श्रेयान् नाश्रयणम् // तथाहि। वयस्यः म विधातव्यो नरेण हितमिच्छता। इहामुत्र च यः श्रेयान् न लोकदयनाशकः // मा भार्या विदुषा कार्या या लोकाल्हादकारिका / धर्ममाधनहेतुश्च न पुनर्दुष्टचेष्टिता // एवं च वदतोस्तयोर्वचनेन मततं ज्वलमानोऽपि वहिरिव मर्पिषा गाढंतरं प्रज्वलितोऽहं। ततो मया व्याधुनितमुत्तमाङ्गं प्रास्फोटितं करतलेन भूमिपृष्ठं विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः आलोकितमुयचलत्तारिकया दृश्या तयोरभिमुखं अभिहितश्च राजा। अरे मृतक मदीयजौवितं वैश्वानरं हिंसां च पापतया कल्पयसि। न लक्षयसि कस्य प्रमादात्त्वयेदं राज्यं ममामादितं। किं नर्हि मदीयवैश्वानरमन्तरेण भवतः पित्रापि मसमरसेनो द्रुमो वा निहन्तुं शक्येत / कनकशेखरः पुनरेवमभिहितः / अरे वृषल किं मत्तोऽपि पण्डिततरस्वममि येनैवं मां शिक्षयमि। ततस्तदवलोक्याकर्ण्य च मदीयवचनं विस्मितो राजा। हतं कनकशेखरेण मोरं मुखं / मया चिन्तितं। श्रये नैतौ मां गणयतः / ततः For Private And Personal Use Only