________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 उपमितिभवप्रपञ्चा कथा / यद्येवं ततो यद्यपि वश्येन्द्रियो देवो महासत्त्वतया च रणमिवस्त्रैणमाकलयति तथाप्येवं विज्ञपयामि यथाभ्युद्धरति निजदर्शनेन राजदुहितरं / केवलं रतिमन्मथे कानने भवतीभिः स्थातव्यं / ततो महाप्रसादोऽनुग्रहीतोऽमौति वदन्तौ पतिता मच्चरणयोः कपिअला। गता स्वभवनं / अहमपीहागतः / तदिदं देव मया भवइदभेषजमवाप्तं // मयाभिहितं। माधु तेतले माधु त्वमेव वक्तुं जानौषे / ततः समारोपितस्तस्य वक्षःस्थले मयात्मौयो हारः परिहिता भुजयोः कटककेयरादयः / तेतलिः प्राह / देवात्र तुच्छकिङ्करजने देवकीयोऽयमतिप्रमादोऽनुचित दूवाभासते। मयाभिहितं / आर्य प्राणप्रदेऽपि सवैये किं किंचिदनुचितमस्ति / तन्न कर्तव्योऽत्र भवता संक्षोभः / त्वं ममेदानौं जीवितादव्यतिरिको वर्तसे // अत्रान्तरे समागतो द्वारि विमलो नाम महाराजमहत्तमो निवेदितो मे प्रतिहार्या / स्थितः पृथगामने तेतलिः / प्रविष्टो महत्तमः / कृतोचिता प्रतिपत्तिः / अभिहितमनेन / कुमार देवेन प्रहितो युमत्ममोपेऽनेनार्थेण / यथास्ति मम जीवितादपौष्टतमा कनकमञ्जरी नाम दुहिता। सा ममोपरोधात् कुमारेण स्वयं पाणिग्रहणेनालादनीया // ततो निरीक्षितं मया तेतलिवदनं / तेनाभिहितं / देवानुवर्तनीयो महाराजो देवस्य / अतो मान्यतामियं तस्य प्रथमप्रणयप्रार्थना / मयाभिहितं / तेतले वमत्र प्रमाणं / विमलः प्राह / कुमार महाप्रसादः / ततो निर्गतो विमलः // तेतलिनाभिहितं / देव गम्यतामिदानों तत्र रतिमन्मथे For Private And Personal Use Only