________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 378 दैवस्य अहो सुपर्याप्लोचितकारिता तातस्य अहो विनयः कनकशेखरस्य / भविष्यत्येवं प्रियभगिन्या मह मम यावनौवमवियोगः / ललिव्यावहे नानाविधं। एवं च चिन्तयन्या ममाविर्भूतः स्फुटबहिर्लिङ्गो हर्षः / तदिदं मे हर्षकारणमिति / मलयमञ्जर्याभिहितं। कपिञ्जले पश्य कालहौनो निमित्तस्य संवादः / मयो / किमाञ्चयं यतो देवौयमुत्पातुका भाषा भवति। केवलं वत्से कनकमञ्जरि मुञ्चेदानौं विषादं। अवलम्बस्व धैयें। सिद्धमधुना नः ममोहितं / व्यपगतं भवत्या दाहज्वरकारणं / प्रतिपादितासि देवेन हृदयनन्दनाय नन्दिवर्धनाय // ततः संजाताश्वामापि हृदये कुटिलशीलतया मदनस्य विधाय ममाभिमुखं विषमभकुटिं कनकमञ्जर्याभिहितं / श्राः भवतु मातः किमेवमलीकवचनैमी प्रतारयसे / शिरोऽपि ममाधुना स्फुटति लममनेनासंबद्धप्रलापेन मलयमञ्जर्याभिहितं। वत्मे मा मैवं वोचः / मत्यमेवेदं नान्यथा वत्सया संभावनौयं। ततः कुतो ममेयन्ति भाग्यानीति शनैर्वदन्ती स्थिताधोमुखी कनकमञ्जरी। ततस्तां निजपतिभक्रस्त्रीकथानिकाकथनव्याजेन विनोदयन्तीभिरस्माभिरतिवाहिता रजनौ / न चाद्याप्युपशाम्यति तस्या: परिदहनं / मया चिन्तितं / यावत्क्रमेण संपत्स्यते नन्दिवर्धनदर्शनं तावन्मरिय्यतौयं राजदुहिता। अतः पश्यामि तावत्तेतलिं। वल्लभोऽसौ कुमारस्य शक्नोति तं विज्ञापयितुं। कदाचित्ततः संपद्यतेऽस्याः परित्राद्यैव कुमारदर्शनेनेति विचिन्त्य समागताहं लत्ममोपे। तदिदं निमित्तमासाद्य तस्यां प्रभवति मौनकेतन इत्येतदाकर्ण्य वयस्यः प्रमाणं // मयाभिहितं / For Private And Personal Use Only