________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 377 तावद्गतोऽस्तं वासरेश्वरः समुद्तो निशीथिनीनाथः परितावितं चन्द्रिकया नभस्तलं। ततो मयाभिहिता मलयमञ्जरौ / स्वामिनि सघर्ममिदं स्थानं / अतः प्रकाशे निःसार्यतां राजदुहिता / तयाभिहितं / एवं क्रियतां / ततो हिमगिरिविशालशिला विभ्रमे सुधाधवलपकाशहर्म्यतले कथंचिद्धार्यमाणा नौता कनकमञ्जरौ विरचितं तत्रातिशीतलनलिनौदलपल्लवशयनीयं / तत्र तां निवेश्य विहितानि भुजयुगले मृणालनालवलयानि / स्थापितो वक्षस्थले सिन्दुवारहारः / समुपनौताः स्पर्शनार्थ प्रक्षेपमात्रेण महामरोवरस्थापि स्यानभावसम्पादकाः शीतवीर्या महामणयः / लगति च तत्र प्रदेशे स्वत एव बलिनामपि रोमहर्षदन्तवीणासञ्जननो गन्धवाहनः। ततो मलयमञ्जर्याभिहितं / वत्से कनकमञ्जरि किमपगताधुना भवत्या दाहज्वरबाधा। कनकमञ्जरौ प्राह / नहि नहि अम्ब प्रत्युताधुना मम मतिः यदुतानन्तगुणा मा वर्तते / यतः प्रज्वलितखादिराङ्गारपुञ्जायते मां प्रत्येष शशधरहतकः / ज्वालाकलापायते चन्द्रिका / विस्फुलिङ्गायते तारका निकरः / दहति मामेष नलिनौदलस्रस्तरः। प्लोषयन्ति मिन्दुवारहारादयः / किंबहुना हतशरीरकमपि मेऽधुना पापाया दाहात्मकतया वकिपिण्डायते // ततो दोघे निःश्वस्य मलयमञ्जर्याभिहितं भद्रे कपिचले जानासि वत्मायाः किं पुनरौदृशदाहज्वरकारणं / मया तु कर्ण स्थित्वा निवेदितं तस्यास्तत्कदलिकावचनं / मलयमञ्जर्याभिहितं। यद्येवं ततः किं पुनरत्र प्राप्तकालं // अत्रान्तरे समुत्थितो राजमार्ग शब्दः / यदुत सिद्धमेवेदं प्रयोजनं / केवलं 48 For Private And Personal Use Only