________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / महमाहतवती। न च दत्तं मे मन्दभाग्यायास्तया प्रत्युत्तरं / दूतश्च तस्मिन्नवसरे तत्रामौत्कदलिका नाम दासदारिका / ततस्तां प्रति मयाभिहितं / भद्रे कदलिके केन पुनर्हतना वत्मायाः कनकमचर्या इयमेवं विधावस्था संजातेति / कदलिकयाभिहितं / अम्ब न सम्यग् लक्षयामि। केवलं यतः प्रभृति राजमार्गऽवतीर्णा नन्दिवर्धनकुमारः पतितो दृष्टिगोचरे भतेदारिकायाः तत प्रारभ्येयं प्रमुदितेव लन्धरत्नेव अमृतमिनेव महाभ्युदयप्राप्तेव अनाख्येयं किमपि रमान्तरमनुभवन्तौ मया दृष्टामौत् / यदा वतीतोऽसौ दृष्टिगोचरात् तदेयमिदृशोमवस्थां प्राप्तेति तत. स्तदाकी मरिष्यतीयमकृतप्रतीकारेति संचिन्य शोकविहलतया विहितो मया हाहारवः / तदाकर्णनेन ममागता मलयमअरौ। ततः मापि किमेतत्कपिञ्जले किमेतदिति वदन्ती निरीक्ष्य कनकमञ्जरौं विलपितमारब्धा / ततो वृहत्तमतया वोलस्य जननौवल्लभतया हृदयस्य खभ्यस्ततया विनयस्य मनाक् संजातचेतना संपना कनकमञ्जरी। मोटितमनया शरीरकं / प्रवृत्ता जम्भित / ततस्तां स्वकौयोत्सङ्गे निधाय मलयमचर्याभिहितं / वत्से कनकमञ्जरि किं ते शरीरके बाधते। कनकमञ्जर्याभिहितं। अम्ब नाहमन्यत्किंचिल्लक्षयामि / केवलं दाहज्वरो मे शरौरं बाधते / ततो यावदाकुला वयं कुर्मस्तस्याः शारीरस्य मलयजरसेनसेचनं प्रेरयामः कर्पूरजलबिन्दुवर्षाणि तालबन्तानि प्रयच्छामोऽझे हिमसेकशीतला जलार्द्राः समर्पयामो मुहुर्मुहुः कर्पूरपूरितानि नागवल्लौदलवीटकानि समाचरामोऽन्यामप्यनेकाकारां शीतक्रियां For Private And Personal Use Only