________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 उपमितिभवप्रपञ्चा कथा / हितसिद्ध्यर्थमेव प्रयोजनान्तरं / कथमन्यथा बहत्तमत्वमस्योपपद्यते। यतोऽस्ति मम परिचिता मलयमञ्जरीसम्बन्धिनौ कपिञ्जला नाम वृद्धगणिका / मा मम शयनादुत्तिष्ठतः पुरतः प्रविश्य मद्भवने वयस्य त्रायध्वं बायध्वमिति महता शब्देन पूस्कृतवती / ततोऽनुपलब्धभयकारणेन मयाभिहितं / भने कपिञ्जले कुतस्ते भयं / तया भिहितं। मौनकेतना दिति। मयाभिहितं / कपिञ्जले अश्रद्धेयमिदं। यतोऽहमेवं तर्कयामि / यदुत कुङ्कुमरागपिङ्गलपलितचिताज्वालावलौभासुरं कटकटायमानास्थिपञ्जरशिवाशब्दभैरवं संकुचितवलौतिलकजालपिच्छलताभीषणं उल्लम्बितशवाकारलम्बमानातिस्थलस्तनभयानकं अतिरौद्रमहाश्मशानविभ्रमं त्वदीयारीरमिदमुपलभ्य नूनं कामः कातरनर द्वाराटौर्दत्त्वा दूरतः प्रपलायते / ततः कुतस्ते भयमिति। कपिञ्जलयाभिहितं / अयि अलौकदुर्विदग्ध न लक्षितस्त्वया मदीयोऽभिप्रायः / तेनैवं ब्रवौषि / अतः समाकर्णय यथा मे मदनाभयमिति / मयाभिहितं / तर्हि निवेदयतु भवती / मा प्राह / अस्ति तावविदितैव भवतो मलयमञ्जरी नाम मम स्वामिनौ। तस्याश्चास्ति कनकमञ्जरौ नाम दुहिता॥ अत्रान्तरे तेतलिना कनकमञ्जरीनामग्रहणादेव स्पन्दितं मे दक्षिणलोचनेन स्फुरितमधरेण उच्छसितं हृदयेन रोमाञ्चितमङ्गेन गतमिवोद्वेगेन / ततो मया चिन्तितं / नूनं मैषा मम हृदययिता कनकमचरीत्युच्यते। महर्षण चाभिहितं / ततस्ततः / ततो लक्षितमदीयभावेन अहो प्रियनामोच्चारणमन्त्रसामर्थमिति विचिन्त्य तेतलिनानुमन्दधानेन कपिञ्चलावचनमिदमभिहितं / For Private And Personal Use Only