________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 373 हरणमूलिकां कन्यकामेष मे / तस्मात्प्राणनाथो ममायं वर्तत इति विचिन्य समारोपितो बलात्पर्यङ्के तेतलिः / अभिहितश्च / साधु भो साधु सुष्टु विज्ञातं भवता मदीयरोगनिदानं / इदानीमौषधमस्य निवेदयतु भद्रः / तेतलिनाभिहितं / देव इदमत्र चक्षुर्दोषे भेषजं। यदुत निपुणवृद्धनारीभिः कार्यतां सम्यग् लवणावतारणक विधीयतां मन्त्रकुशलैरपमार्जनं लिख्यन्तां रक्षाः निबध्यन्तां कण्डकानि अनुशी ल्यन्तां भूतिकर्माणि / अन्यच्च / शाकिन्यपि किल प्रत्युच्चारिता न प्रभवतीति कृत्वा गत्वा निष्ठुरवचनैर्गाढं निर्भ य॒तां मा दारिका / यदुत हे वामलोचने निरीक्षितस्त्वया विषमदृष्ट्या देवः / ततस्त्वं ज्ञाता बुद्धा तिष्ठसि / यदि च देवस्य गरौरे मनागपि स्वलितं भविष्यति ततो नास्ति ते जौ वितमिति / एवं क्रियमाणे देव नियमादुपशाम्यत्येष चक्षुषः / तदिदमस्य भेषजं मया विज्ञातमिति / ततो विहस्य मयाभिहित। भद्र तेतले पर्याप्तं परिहासेन / निवेद्यतां यद्यवधारितः कश्चिद्भवता निश्चितं महुःखविगमोपायः। तेतलिः प्राह / देव किमलब्धदेवदुःखप्रतीकारा एव देवपादोपजीविनः कदाचिदपि देवस्य पुरतः सोद्धेगे सति देवे सहर्ष जल्पितमुत्महन्ते / तस्मान्मा कुरुत विषादं / सिद्धमेव देवसमौहितं। मया हि देवोद्वेगनिरासार्थमेवैष परिहामो विहितः। मयाभिहितं / वर्णय तर्हि कथं सिद्धमस्मत्ममौहितम् / तेतलिः प्राह। देव विज्ञापितमिदमादावेव मया। यथा मम प्रत्युषस्येव देवममोपमागच्छतो वृहत्तमं प्रयोजनान्तरमापतितं / तेन लवितो ममायं दिनार्धप्रहर इति। तद्देवसमौ For Private And Personal Use Only