________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 उपमितिभवप्रपच्चा कथा / प्रसादेन शरीरकुशलवार्तामात्रायत्तजीविताय किङ्करापसदायास्मै जनाय यदस्य व्यतिकरस्य कारणमिति ब्रुवाणः पतितो मेचरणयोस्तेतलिः / ततो मया चिन्तितं / अहो अस्य मयि भक्तिप्रकर्षः अहो वचनकौशलं / युज्यत एवाम्मै सद्भावः कथयितुं। तथापि वामशीलतया मदनविकारस्य मयाभिहितं। भद्र तेतले न जाने किमत्र कारणं। केवलं यतः प्रमति हट्टमार्गमतिक्रम्य समानौतस्वया रथो राजकुलाभ्यणे धारितस्तत्र कियन्तमपि क्षणं तदारात्सर्वाणि मे विलीयन्तेऽङ्गानि प्रवर्धतेऽन्तस्तापः ज्वलतीव भवनं न सुखायन्ते जनोलापाः श्राविर्भवति रणरणकः समुद्भूतालौकचिन्ता शून्यमिव हृदयं / ततोऽहमस्य दुःखस्यालब्धपरित्राणोपायः खल्वेवं स्थित इति ततः महर्षण तेतलिनाभिहितं / देव यद्येवं ततो विज्ञातं मयास्य दुःखस्य निदानमौषधं च। न विषादः कर्तव्यो देवेन / मयाभिहितं / कथं / तेतलिः प्राह / समाकर्णय निदानं तावदस्य दुःखस्य चक्षुर्दोषः / मयोक्त। कस्य सम्बन्धौ। तेतलिः प्राह। न जाने किमसौ लक्षिता न वा देवेन मया पुनईहतौं वेलां निरूपिता तत्र राजकुलपर्यन्तवर्तिनि प्रासादे वर्तमाना काचिद्वृहद्दारिका देवमर्धतिरश्चीनेनेक्षणयुगलेन साभिनिवेशमङ्गप्रत्यङ्गतो निरूपयन्तौ। तनिश्चितमेतत्तस्या एव सम्बन्धी चक्षुर्दोषोऽयं / यतो देव अतिविषमा विषमौलानां दृष्टिर्भवति / ततो मया चिन्तितं। वष्टः खल्वेष तेतलिः। बुद्धोऽनेन मदीयभावः / विलोकिता मा चिरमनेन। अतः पुण्यवानयं। यतश्च वदत्येष यथा लब्धं मया तवास्य दुःखस्य भेषजमिति ततः संपादयिष्यति नूनं तां मदनज्वर For Private And Personal Use Only