________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 365 पुरनिवासी प्रभाकरबन्धुसुन्द-स्तनयो विभाकरो यस्मै प्रभावत्या दत्ता विमलानना पूर्वमासौदिति निवेदितं दूतेन। ततश्चैषोऽस्मान् परिभूय हरत्येते वध्वौ दुष्टात्मेति भावयतो मे विहिता वैश्वानरेण संज्ञा। ततो भक्षितं मया क्रूरचित्ताभिधानं वटकं / संजातो भासुरः परिणामः / ततो मयाभिहितं / अरेरे पुरुषाधम विभाकर परदारहरणतस्कर क्व यासि पुरुषो भव पुरुषो भवेति। ततस्तदाकर्ण्य गङ्गाप्रवाह व त्रिभिः स्रोतोमुखैर्वलितमभिमुखं परवलं / प्राविर्भूतास्तदधिष्ठायकास्त्रय एव नायकाः। ततो मया कनकचूडराजेन कनकशेखरेण च त्रिभिरपि योद्धकामैर्यथासंमुखं वृत्तास्ते। इतश्च योऽसौ कन्यागमनसूचनार्थं कनकचूडराजसमोपे समागतः पूर्वमासौबन्दराजदूतः स तत्रावसरे मत्सकाशे वर्तते / ततोऽभिहितोऽमौ मया। अरे विकट जानौषे त्वं कतमाः खल्वेते त्रयो नायकाः / विकटः प्राह / देव सुष्टु जानामि / य एष वामपार्श्वनीकस्य मम्मुखो भवतः एष कलिङ्गाधिपतिः समरसेनो नाम राजा। एतहलेनैव हि प्रारब्धमिदमनेन विभाकरेण / यतो महाबलतया विभाकरपितुः प्रभाकरस्यायं स्वामिभूतो वर्तते। यः पुनरेष मध्यममन्ये वर्ततेऽभिमुखः कनकचूडनरपतेरयं विभाकरस्यैव मातलो वङ्गाधिपतिर्दुमो नाम राजा / यस्लेष दक्षिणभागवर्तिनि बले नायकोऽभिमुखः कनकशेखरस्य मोऽयं विभाकर एव। यावदेवं कथयति विकटः तावत्ममाखनमायोधनं / तच्च कीदृशम् / शरजालतिरस्कृतदृष्टिपथं पथरोधसमाकुलतौबभटम् / भटकोटिविपाटितकुम्भतटं तटविभ्रमहस्तिशरौरचितम् // For Private And Personal Use Only