________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। मया चिन्तितं। अहो हिंसाया माहात्म्यप्रकर्षः। यदनयापि विलोकितस्य ममैतावानुन्नतिविशेषः संपन्न इति / सम्मानितास्तेऽपि कनकशेखरादिभिः / दत्तं प्रयाणकं / संमाता वयं कुशावर्तपुरे। ममानन्दितः कनकशेखरकुमारागमनेन कनकचूडराजस्तुष्टो मद्दर्शनेन / ततो विधापितस्तेन महोत्सवः पूजितः प्रणयिवर्गः। ततो गणितं विमलाननारत्नवत्योर्विवाहदिनं ममागतं पर्यायेण / कृतमुचितकरणौयं / ततो दौयमानैर्महादानेर्विधीयमान नजनसम्मानर्बहुविधकुलाचारैः संपाद्यमानैरभ्यहितजनोपचारैर्गानवादनपानखादनविमदैन निर्भरीभूते समस्ते कुशावर्तपुरे परिणौता कनकशेखरेण विमलानना मया रत्नवतीति। ततो विहितेषचितकर्तव्येषु निवृत्ते विवाहमहानन्दे गते दिनत्रयेऽदृष्टपूर्वतया कुशावर्त्तस्यातिरमणीयतया तत्प्रदेशानां कुतूहलपरतया यौवनस्य समुत्पन्नतयास्मासु विश्रम्भभावस्य ग्टहीत्वाम्मदनुज्ञां नगरावलोकनाय निर्गते भ्रमणिकया सपरिकरे विमलाननारत्नवत्यौ। ततोऽनेकाश्चर्यदर्शनेनानन्दपूरितहृदये संप्राप्ते ते चूतच्त्तकं नामोद्यानं प्रवृत्ते क्रौडितुम् / वयं तु कनकचूडराजास्याने तदा तिष्ठामः / यावदकाण्ड एव प्रवृत्त: कोलाहल: पूछतं दामचेटौभिः किमेतदिति संभ्रान्तं उत्थितमास्थानं। हते विमलाननारत्नवत्यौ केनचिदिति प्रादुर्भूतः प्रवादः। ततः सन्नद्धमसाबलं लग्नं तदनुमार्गण। ततो मार्गखिन्नतया परमैन्यस्य मोत्माहतयास्मदनौकस्य स्तोकभूभाग एव समवष्टधा परचमूरस्मत्यताकिन्या। श्रुतमस्माभिर्विभाकरनामकं वन्दिभिरुद्धथ्यमाणम् / ततः सर्वै रेव चिन्तितमस्माभिः / अये म एष कनक For Private And Personal Use Only