________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयः प्रस्तावः / ततः ममुदीर्णतया चरटवर्गस्य संजाता: परिभग्नप्रायाः कनकखरादयः / अत्रान्तरे प्रवरसेनाभिधानेन चरटनायकेन माधैं ममापतितं ममायोधनमिति। नतः संजितोऽहं वैश्वानरेण / भक्षितं मया तत्क्रूरचित्ताभिधानं वटकं। ततः प्रवृद्धो मेऽन्तस्तापः। संजातो भृकुटितरङ्गभङ्गुरो ललाटपट्टः। ममाचितं खेदविन्दुनिकरण शरीरं। स च प्रवरसेनोऽत्यन्तकुशलो धनुर्वेदे नियंढमाहमः करवालेऽतिनिपुणः सर्वास्त्रप्रयोगेषु गर्वोद्भुरो विद्याबलेन प्रबलवौर्या देवतानुग्रहेण / तथापि सन्निहितपुण्योदयमाहात्म्यान्मे न लगन्ति स्म तदीयशिलीमुखाः न प्रभवन्ति स्म तदीयशस्त्राणि न वहन्ति म्म तस्य विद्याः अकिञ्चित्करीभृता देवता। मम तु चेतमि परिस्फरितं अहो प्रियमित्रवटकस्य प्रभावातिशयो यदम्य तेजमा ममायं रिपुर्दृष्टिमपि धारयितुं न पारयति। ततो मया तथा वैश्वानरवटकप्रभावाधिष्ठितेन स प्रवरसेनश्चरटनायको विच्छिन्न कार्मुकः प्रतिहतोषान्यशस्वः सन् ग्टहीतचमत्कुर्वद्भाखरकरवालः स्पन्दनादवतीर्य स्थितो भूतले प्रस्थितो मदभिमुखं / अत्रान्तरे पार्श्ववर्तिन्या विलोकितोऽहं हिंमया / जातो गाढतरं रौद्रपरिणमः मुक्तो मया कर्णान्तमाकृष्य निशितोऽर्धचन्द्रः / छिन्नं तेन तस्यागच्छतो मस्तकं। ममुन्नमितोऽस्मइले कलकलः / निपातिता ममोपरि देवैः कुसुमवृष्टिः। वृष्टं सुगन्धोदकं / ममाहता दुन्दुभयः / ममुद्दोषितो जयजयशब्दः। ततो हतनायकत्वादिषणं चरटबलं / अवलम्बितप्रहरणं गतं मे शरणं प्रतिपवं मया। निवृत्तमायोधनं संजातः मन्धिः। प्रतिपन्नः सर्वचरटर्मम भृत्यभावः। For Private And Personal Use Only