SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 उपमितिभवप्रपञ्चा कथा / प्राह / मापराधं निरपराधं वा प्राणिनं मारयता कुमारेण न मनागपि धनायितव्यं श्रयमस्थाः / खल्वनुरकोभवनोपायः / मयाभिहितं। किमनयात्यन्तमनुरक्रया भविष्यति / वैश्वानरः प्राह / कुमार मत्तोऽपि महाप्रभावेयं / यतो मयाधिष्ठितः पुरुषोऽतितेजस्वितया परेषां केवलं चासमात्र जनयति अनया पुनहिंसयात्यन्तमनुरक्तयालिङ्गितमूर्तिमहाप्रभावतया दर्शनमात्रादेव जौवितमपि नाशयति / तस्मादभिमुखीकर्तव्येयं कुमारेण / मयाभिहितमेवं करोमि। वैश्वानरेणोक्र। महाप्रसाद इति // ततो मार्गे गच्छन्नहं शशमूकरशरभशम्बरमारङ्गादौनामाटव्यजीवानां शतसहस्राणि मारयामि स्म। ततः प्रहष्टा हिंसा संपन्ना मय्यनुकूला / ततः कम्पन्ते मद्दर्शनेन जौवाः मुञ्चन्ति प्राणानपि केचित् / ततः संजातो मे वैश्वानरकथितहिंसाप्रभावे प्रत्ययः / प्राप्ता वयं कनकचूडविषयाभ्यर्ण। तत्रास्ति विषमकूटो नाम पर्वतः / तस्मिंश्च कनकचूडमण्डलोपद्रवकारिणोऽम्बरौषनामानश्चरटाः प्रतिवमन्ति। ते च कदर्थिताः पूर्वं बहुशः कनकचूडेन / ततः कनकशेखरमागच्छन्तमवगम्य निरुद्धस्तैर्मार्गः। प्रत्यासन्नौभूतमस्मदलं / ततः कलकलं कुर्वन्तः ममुत्थितावरटाः / समालनमायोधनं / ततश्च निपतितशरजालभिन्नेभकुम्भस्थलाभोगनिर्गच्छदच्छाच्छमुक्काफलस्तोमसंपूरिता शेषपौठभूदेशं क्षणात् / तथा विदलितभटमस्तकासंख्यराजीववृन्दानुकारेण रतौधनौरेण दण्डास्त्रमच्छत्रसंघातहंसेन तुल्यं तडागेन संजातमुच्चैर्महायुद्धमस्माकमिति। For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy