________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततोऽभिहितमनेन। आर्य त्वमेवात्र सर्वाधिकारी क्षमः सर्वेषामुचितकर्तव्यानां। तत्किमेतेरपरमुचितं कर्तव्यं / विमलमतिराह। देव यदेवपादैः कर्तुमारब्धं तदस्माकमेतेषां च सर्वेषामस्य कालस्योचितं कर्तव्यं नापरं / यतः समान एवायं न्यायः सर्वेषां वर्तते / निवेदितान्येव हि भगवता सर्वेषामेव जौवानामेकैकस्य त्रीणि त्रीणि कुटुम्ब कानि। तस्मादेषामप्यस्य कालस्येदमेवोचितं / यदुत प्रथमकुटुम्बकं पोप्यते द्वितीयं हन्यते बतौयं परित्यज्यत इति। नृपतिनाभिहितं। आर्यातिसुन्दरमिदं यद्येतेऽपि प्रतिपद्यन्ते। विमलमतिराह। देव पथ्यमिदमत्यन्तमेतेषां / किमत्र प्रतिपत्तव्यं // ततस्तदाकर्ण्य तत्र परिषदि जौवा बलादेषोऽस्मान् प्रव्राजयतीति भावनया भयोत्कर्षण कम्पिताः कातराः प्रविष्टा गुरुकर्मकाः प्रपलायिता नीचा विकलौभूता विषयटनवः प्रखिन्नाः कुटुम्बा दिप्रतिबद्धबुद्धयः प्रह्लादिता लघुकर्मका अभ्यपगतवन्तस्तद्वचनं धौरचित्ता इति / ततस्तैर्लघुकर्मधौरचित्रभिहितं / यदाज्ञाययति देवस्तदेव क्रियते। कः सकर्णकः सत्यां समग्रमामय्यामेवंविधमार्थावण्यतीति। तदाकर्ण्य हृष्टो राजा / गताः सर्वेऽपि अभ्यर्णवर्तिनि प्रमोदवर्धने चैत्यभवने। स्नापितानि भुवननाथस्य भगवतो विम्बानि / विरचिता मनोहारिणी पूजा। प्रवतितानि महादानानि कारितं बन्धनमोचनादिकं समस्तमुचितकरणीयं / समाहूतः श्रीधराभिधानो नगरानिजतनयः / दत्तं तस्मै राज्यं नरपतिना। प्रत्राजिताः प्रवचनोकेन विधिना सर्वेऽप्युपस्थितलोका भगवता। विहिता भवप्रपञ्चनिर्वेदजननी For Private And Personal Use Only