SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / / 361 गतमवगम्य ममोपरि स्नेहवशेनागत्य ततो रौद्रचित्तपुरात् स्थिता मनिहिता। जातोऽस्था मम जन्मदिने वैश्वानरो वृद्धिं गतः क्रमेण / कथितस्तया तस्मै सर्वोऽप्यात्मीयः स्वजनवर्गः / ततस्तस्य वैश्वानरस्य तत्र मार्ग मया मह गच्छतः समुत्पन्नवम्भता बुद्धिः / यदुत नयाम्येनं नन्दिवर्धनकुमारं रौद्रचित्तपुरे। दापयाम्यस्मै दुष्टाभिसन्धिना तां हिंमाकन्यकां / ततस्तया परिणौतया ममैष सर्वप्रयोजनेषु गाढतरं नियभिचारो भविष्यति / ततो विचिन्त्य तेनैवमभिहितोऽहं तत्र गमनाथ / मयोकं / कनकशेखरादयोऽपि गच्छन्तु। वैश्वानरः प्राह। कुमार नामोषां तत्र गमनप्रसरो यतोऽन्तरङ्गं तद्रौद्रचित्तं नगरं / ततो विना परिजनेन मत्सहाय एव कुमारस्तत्र गन्तुमर्हति। ततस्तदाकाहमलङ्घनौयतया तवचनम्य गुरुतया तत्र स्नेहभावस्य अज्ञानोपहततया चित्तस्यानाकलय्य तस्य परमशत्रुतां अपर्यालोच्यात्महिताहितं अदृष्ट्वाप्यागामिनोमनर्थपरंपरां गतो वैश्वानरेण मह रौद्रचित्तपुरे। दृष्टो दुष्टाभिसन्धिः / दापिता वैश्वानरेण मह्यं तेन हिंमा। परिणौता क्रमेण / कृतमुचितकरणौयं // ततः प्रहितो दुष्टाभिसन्धिना महितो हिंमावैश्वानराभ्यां मिलितोऽहं कनकशेखरादिबले। गच्छता मार्ग प्रारब्धः सहर्षण वैश्वानरेण सह जल्पः। यदुत कुमार कृतकृत्योऽहमिदानौं। मयोक्त। कथम् / स प्राह / यदेषा परिणौता कुमारेण हिमा। केवलमेतावदधुनाहं प्रार्थये यद्येषा कुमारस्य मततमनुरका भवति। मयाभिहितं। कः पुनरेवंभवनेऽस्या उपायो भविष्यति / वैश्वानरः 46 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy