SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तातः। ततस्तोषनिर्भरेणं तातेन तस्मिन्नेव क्षणे मन्नौकारितं प्रस्थानोचितं चतुरङ्ग बलं / नियुका महत्तमाः / कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति / प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया महाभिव्यक्तरूपो वैश्वानरः / पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया / ततो दत्तं प्रयाणक लवितः कियानपि मार्गः। दतश्च निवासस्थानं दृष्टलोकानां उत्पत्तिभूमिरनर्थवेता लानां द्वारभूतं नरकस्य कारणं भुवनमन्तापस्य तस्करपलिप्रायमस्ति रौद्रचितं नाम नगरम् / तथाहि / उत्कर्तनशिरश्छेदयन्त्रपौडनमारणैः / ये भावाः सत्त्वसङ्घस्य घोराः मन्नापकारिणः // ते लोकास्तत्र वास्तव्या रौद्रचित्तपुरे सदा / तस्मात्तढुष्टलोकानां निवासस्थानमुच्यते // कलहः प्रीतिविच्छेदस्तथा वैरपरम्परा। पिटमासुतादौनां मारणे निरपेक्षता // ये चान्येऽनर्थवेताला लोके मम्भावनातिगाः / ते रौद्रचित्ते सर्वेऽपि संपद्यन्ते न संशयः // उत्पत्तिभूमिस्तत्तेषां पत्तनं तेन गीयते / यथा च नरकद्वारं तथेदानौं निगद्यते // ये मत्त्वा नरकं यान्ति स्वपापभरपूरिताः / ते तत्र प्रथमं तावत्प्रविशन्ति पुराधमे // अतः प्रवेशमार्गत्वात्तस्य निर्मलमानमः। For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy