SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / रोचते तदेव ममाचर। न खल वत्सा स्वयमेवानुचितमाचरिष्यति। ततो महाप्रमाद इति वदन्तौ प्रवृत्ता रत्नवतौ / ततोऽनवरतप्रयाणकः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे स्थिते बहिरुद्याने / प्रहितोऽहममुमर्थ विज्ञापयितुं देवपादमूलमेतदाकी देवः प्रमाणमिति / ततस्तदूतवचनमाकर्ण्य कनकचूडराजा हर्षविषादपूरितहृदयः कन्यावासकदानार्थं व्यापार्य शूरसेनं बलाधिकृतमस्मान् सुमतिवराङ्ग केसरिण: प्रधानमहत्तमान् प्रत्याह / पश्यताहो परमानन्दकारणमपोदमस्माकं नन्दनराजदुहित्रोरागमनं कुमारविरहानल मर्पिष्प्रक्षेपकत्यतया क्षते क्षारनिषेकतुल्यं प्रतिभासते / तच्छत शौघ्रं ययं जयस्थले / निश्चितमेतत्तत्रैवास्ते कुमारः / निवेदयत पद्मनृपतये मदीयावस्थां कन्यागमनं च / कारणद्वयमवगम्य आहेव्यत्येव कुमारं पद्मराजः / अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युग्माभिरानेयो यतः स एवोचितो वरो रत्नवत्याः / ततोऽस्माभिरभिहितं / यदाज्ञापयति देवः / ततश्चेहामुना प्रयोजनेन ममागता वयमिति // तदिदं सर्वमस्मभ्यमेतराख्यातं / तदेवं स्थिते यद्यपि युभद्विरहकातरहृदयतया नेदमस्माभिरभिधातुं शक्यं तथापि महाप्रयोजनमित्याकलय्या भिधीयते / यदुत मा कुरुताधना कालविलम्बं गच्छतातित्वरया कुशावर्त्त जनयतं दावपि युवां कनकचूडराजचित्तानन्दमिति। ततः शोभनमाज्ञापितं तातेन भविष्यत्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं / यदाज्ञापयति For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy