SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 उपमितिभवप्रपञ्चा कथा। रहितेव तकरौ शून्यहृदयतया न वादयति वीणां न विलमति कन्दुकलौलया न विधत्ते पत्रच्छेदादिकं नाभ्यस्थति चित्रादिकलाः न कुरुते शरौरस्थितिं न ददाति कस्यचिद् लापं न लक्ष्यति रात्रिन्दिनं केवलं निष्यन्दमन्दनिश्चललोचना परमयोगिनौव निरालम्बनं किमपि ध्यायन्तौ तिष्ठति / ततः पर्याकुलौभूतः परिकरो न जानौते तादृशविकारस्य कारणं / ततोऽतिवल्लभत्वेन मदा मन्निहितया लक्षितोऽमौ रत्नवत्या विकारहेतुः। यतश्चिन्तितं तया / अये कनकशेखरकुमारनामग्रहणदनन्तरमिदमवस्थान्तरमस्याः संपन्नमतो निश्चितमेतत्तेनैव प्रियभगिन्या मनश्चीरितं / तदिदमत्र प्राप्तकालं / निवेदयाम्येवं स्थितमेव ताताय / येन तात एव तस्य प्रियभगिनौचित्तचौरस्य निग्रहं करोतौति विचिन्त्य निवेदितं तया मवें नन्दननरपतये / चिन्तितमनेन / दत्तैवेयं जनन्या विभाकराय तथापि नान्यथाधुनास्या जीवितमिति कृत्वा प्रेषयामि तस्यैव कनकशेखरस्य स्वयंवरामेनां / यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः / पश्चादेव विभाकरं संभालथिध्यामः / ततो वत्से धौरा भव मुञ्च विषादं गच्छ कुशावर्त्त कनकशेखरायेति मधुरवचनैरालप्य देवेन सह परिजनेन प्रस्थापिता तत्र विमलानना / रत्नवत्यापि विज्ञापितो दैवः / यथा तात नाहमनया रहिता क्षणमपि जीवितमुत्महे / ततो मयापि यातव्यमित्यनुजानौत यूयं / केवलं न मम कनकशेखरो भर्ता / यतः सापत्न्यं नारीणां महदेव स्नेहत्रोटकारणं / ततो मया तदिष्टस्य वयस्यस्य कस्यचिद्भार्यया भाव्यमिति / देवेनाभिहितं / वत्मे यत्ते For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy