________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 353 पिवृष्वसुः ममौपे गतो भविष्यति / वल्लभा हि नन्दा कुमारस्य वत्सलः पद्मराजः / कुमारपरिचयादेवावगतमिदं मया / दूतो निर्गतस्य तत्रैव चित्तनिर्वाणं नान्यत्रेति // ततः माधु चतुर विज्ञातं माध्विति वदता दापितं चतुराय पारितोषिक महादानं राजा / अयमस्थानर्थव्यतिकरस्य हेतुरिति कृत्वा निर्वासितः स्वविषयात्मगोत्रो दुर्मुखः / प्रतिज्ञातं च देवौनृपाभ्यां / यथा यावत् कुमारवदनं मानावावलोकितं तावन्नवावाभ्यामाहारशरीरसंस्कारादिकं करणीयमिति / दूतश्च तत्रैव दिने प्रविष्टो दूतः / तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय। यथा देव अस्ति विशाला नाम नगरौ / तस्यां नन्दनो नाम राजा / तस्य च हे भार्य प्रभावती पद्मावती च। तयोश्च यथाक्रमं वे दुहितरौ विमलानना रत्नवतौ च / दूतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरी नाम राजा। तस्य बन्धसुन्दरी नाम भार्या / तस्याश्च विभाकराभिधानस्तनयः। तयोश्च प्रभाकरपद्मावत्योः पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूज्यल्पः। यदुतावयोर्यस्य कस्यचिद्दुहिता जायेत तेनेतरसम्बन्धिने सुताय मा देयेति / अतः पूर्वप्रतिपन्ना मा विमलानना विभाकरस्य / अन्यदा गुणसंभारगर्भनिर्भरं वन्दिभिरुद्धृष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं / ततस्तदाकण्य मा विमलानना कुमारे विजम्भितरागातिरेका निजयथपरिभ्रष्टव हरिणिका सहचर वियुव चक्रवाकिका नाकनिर्वामितेव देवाङ्गनिका मानसमरःसमुत्कण्ठितेव कलहंसिका ग्लहवि For Private And Personal Use Only