SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 उपमितिभवप्रपञ्चा कथा / दुत्थाय गलदानन्दोदकप्रवाहलावितनयनयुगलास्त्रयः प्रधानपुरुषाः समागत्य सपरिकराः पतिताः कनकशेखरचरणयोः। ततः साकूतमये कैते सुमतिवराङ्ग केशरिण इति वदता सस्नेहमूर्धी कृत्य समालिङ्गिताः कनकशेखरेण / मयोक्तं / कुमार क एते। कनकशेखरः प्राह। मदीयजनकमहत्तमा इति। ततः कृतप्रतिपत्तयः ममुपविष्टाः सर्वेऽपि ताताम्यणे / तातः कनकशेखरं प्रत्याह। कुमार एतैस्वदौयजनकामहत्तमैराख्यातं / यथा यतः प्रति कुमारोऽनाख्याय निर्गतो गेहात् तत आरभ्य राजा कनकचूडः परिजनमकाशान दृश्यते कापि कुमार इत्याकर्ण्य सहसा वज्राहत व पिष्ट दूव परायत्त दूव मत्त व मूर्छित इव न किंचिच्चेतयते स्म। देवौ च चूतमञ्जरी प्रविष्टा महामोहं मृतेव स्थिता मुहूर्त / कृतं परिजनेन द्वयोरपि व्यञ्चनचन्दनादिभिराश्वासनं। ततो हा पुत्रक क्व गतोऽमोति प्रलपितुं प्रवृत्तौ तौ देवौनृपौ। ततः परिजनस्यापि समुलमितो महानाक्रन्दरवः मिलितं मन्त्रिमण्डलं। अभिहितमनेन। देव नायमत्रीपायः। ततो मुञ्च विषादं अवलम्बस्व धैर्य क्रियतां यत्नः कुमारान्वेषणे / राजा न तद्वचनं वेदयते स्म / ततश्चतुरेण चिन्तितं / शोकातिरेकेण त्यक्ष्यति देवः प्राणान् / ततो नाधुना ममोपेक्षा कर्तुं युका / ततः पादयोर्निपत्य तेन राज्ञे निवेदितं मकारणं तदीयमपक्रमणं / ततो जीवति कुमार इति कृत्वा प्रत्यागता राज्ञश्चेतना / पृष्टश्चतुरः क्व पुनर्गत: कुमार इति / चतुरेणाभिहितं / न मे किंचिदाख्यातं कुमारेणापक्रमणकारणमिति / चतुरतया मया लक्षितं केवलमेतावद्वितर्कयामि / यद्त जयस्थले For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy