________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 उपमितिभवप्रपञ्चा कथा / तरमुद्देजितेन / प्रगणीकृत एवात्रार्थ मया राजा। ततः स्वयमेव स्वाभिमतमनुष्ठास्यामि। साम्प्रतं पुनरेनमनुलोमयामोति मंचिन्याभिहितमनेन / माधु कुमार साधु / सुन्दरस्ते मद्धर्मस्थैर्या तिरेकः / मया हि भवतश्चित्तपरोक्षणार्थं सर्वमिदमुपक्रान्तं। ततश्च सुनिश्चितमधुना / यदुत तावकौनं मन / स्थिरतया मेरुशिखरमप्यधरयति / तबेदं मदीयवचनं कुमारेणान्यथा सम्भावनौयं / मयाभिहितम्। आर्य किमत्र वक्तव्यं / अविषयो भवादृशा अन्यथासम्भावनायाः। ततो निर्गतो मत्समौपाद्दर्मुखः / मया चिन्तितं / शठप्रकृतिरेष दुर्मुखः पापात्मा च / तन्त्र विज्ञायते किमयमाचरिष्यति। यतो महताकूतेन प्रथममनेन मन्त्रितं पश्चादतित्वरया कृतमाकारसंवरणम् / अतो निरूपयामस्तावत् / ततः प्रयुक्तो मया प्रणिधिचतुरो नामाप्तदारकः // गतेषु कतिचिद्दिनेषु समागतोऽसौ मत्समीपं / निवेदितमनेन / यथा स्वामिन् तावदितो निर्गतोऽहं विनयेनाराध्य दुर्मुखं संपन्नस्तस्याङ्गरक्षकः / ततो दुर्मुखेण रहसि समाय ममस्तस्थानेभ्यः प्रधानश्रावकानिदमभिहितं / यदुत अरे एष कनकशेखरकुमारोऽलोकधर्मग्रहग्टहीतो राज्यं विनाशयति लनः / ततो युग्मभ्यमितः प्रभृति यदेष किंचित् प्रयच्छति यश्च राजभागमद्भूतो भवतां करस्तवयमपि प्रच्छन्नमेव मम समर्पणणेयं न च कुमाराय निवेदनीयमितरथा नास्ति भवतां जौवितमिति। श्रावकैरुक्तं। यदाज्ञापयति महामात्यः। ततो निर्गतास्ते / मयाभिहितं तास्ते। भद्र अपि ज्ञातमेतत्तातेन। चतुरः प्राह / ज्ञातं / मयोक्तं। कुतः सकाशात्। चतुरेणोतं। तत एव दुर्मुखात्। मया For Private And Personal Use Only