________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 36 346 दुष्टवष्टादिलोकस्य कुयीं सन्मानपूजनम् // ये तु स्वगुणमाहात्म्याद्देवानामपि पूजिताः / तेषां यथेच्छादानेऽपि नैतत्संबध्यते वचः // तथा हि। ये चौर्यपारदार्यादेः सर्वस्माद्दुष्टचेष्टितात् / स्वत एव महात्मानो निरत्ताः सर्वभावतः // तेषां जैनेन्द्रलोकानां दण्डः स्यात् कुत्र कारणे / दण्डबुद्धिर्भवेत्तेषु यस्थामौ दण्डमर्हति // करोऽपि रक्षणीयेषु लोकेषु ननु बुध्यते / तस्थापि नोचिता जैना ये गुणैरेव रक्षिताः // अतः किङ्करता मुत्वा नान्यत्किंचन भूभुजाम् / विधातुं युक्रमेतेषां मेवास्माभिर्विधीयते // येषां नाथो जगन्नाथो भगवांस्तेषु किङ्करः / यः स्याद्राजा स एवात्र राजा शेषास्तु किङ्कराः / एवं चाचरता ब्रूहि राजनौतेर्विलङ्घनम् / किं मया विहितं येन भवानेवं प्रजल्पति / / किं च / अलौकधर्मवात्सल्यं मदीयं वदता त्वया / परिस्फुटौकृतं नूनं दुर्मुखत्वमिहात्मनः // एवं च वदति मयि लक्षितो दुर्मुखेण मदीयोऽभिप्रायः / चिन्तितमनेन / अये अर्हद्दर्शने निर्भरोऽस्यानुरागः। अनिवर्तकश्चित्तप्रमरः / कुपितश्चायं मदीयवचमा / तदलमनेनाधुना गाढ For Private And Personal Use Only