________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 उपमितिभवप्रपञ्चा कथा / मिदं वर्तते पृष्टः खल्वेष विद्रो ज्ञापयिष्यत्यस्य मदीयस्वरूपमिति। माशङ्कः संपन्नो वैश्वानरः // विदुरेणाभिहितं। कुमार सत्यमिदं सम्यगवधारितं कुमारेण / अन्यच्च / प्रकृतिरेषा प्रायः प्राणिनां यथा यत्र कुत्रचित्किंचन दृष्टं श्रुतं वा सर्वमात्मविषये योजयन्ति / ततो मयापौदं कथानकमनुश्रुत्य स्व हृदय चिन्तितं / यदुत यदि कुमारस्य कदाचिदपि पापमित्रसम्बन्धो न भवति ततः सुन्दरं मंपद्यते। मयाभिहितं / भद्र किमत्र चिन्तनीयं / नात्येव मे नापि भवियति पापमित्रसम्बन्धगन्धोऽपौति। विदुरः प्राह / वयमप्येतावदेवार्थयामहे। ततः स्थितो मदौयकर्णाभ्यर्ण विदुरः। शनैः शनैरभिहितं चानेन। यदुत केवलमेषोऽपि वैश्वानरो लोकवार्तया दुष्टप्रकृतिः श्रूयते / तदयं मम्यक्परीक्षणीयः कुमारण। मा भूदेष स्पर्शनवहालस्य पापमित्रतया भवतोऽनर्थपरंपराकारण मिति / __निरौक्षते च तस्मिन्नवमरे वैश्वानरः माकूतः सन्नभिमुखो मदौयवदनं / लक्षितोऽहमनेन मुखविकारतस्तैर्विदुरवचनैर्दूयमानः / ततः कृता वैश्वानरेण मां प्रति मा पूर्वमाङ्केतिका संजा। भक्षितं मया क्रूरचित्ताभिधानं तहटकं / ततस्तत्प्रभावान्दो क्षणेन वृद्धोऽन्तस्तापः / अमुलमिताः खेद विन्दवो जातं गुजार्धम निभं शरीरं संपन्नं विषमदष्टोष्ठं भनोग्रभृकुटितरङ्गमतिकरालं वत्रकुहरं। ततो भद्रे अग्टहीतसङ्केते तथा वैश्वानरवटकप्रभावाभिभूतात्मना मया पापकर्मणानाकलय्य तस्य वत्सलतामनालोश हितभाषितमविगणय्य चिरपरिचथं परित्यज्य स्नेहभावमुररीकृत्य दुर्जनतां मर्वथा For Private And Personal Use Only