SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 336 गतोऽन्यत्र विहाराय मूरिः शिष्यगणैः सह // ततश्च / विहत्य कालं भूयांममागमोक्रेन वर्त्मना / पर्यन्तकाले मंप्राप्ते विधाय मकलं विधिम् // ज्ञानध्यानतपोवौर्यवहिनिर्दग्धकल्मषः / मनौषौ नितिं प्राप्तो हित्वा खं देहपञ्चरम् / / ये तु मध्यममद्यौर्यास्ते तनूभूतकर्मकाः / गता मध्यमबुद्याद्या देवलोकेषु माधवः // बालस्य तु यदादिष्टं भदन्तै विचेष्टितम् / तत्तथैवाखिलं जातं नान्यथा मुनिभाषितम् // // स्पर्शनकथानकं समाप्तम् // विदुर उवाच / कुमार तदिदं मया ह्यः कथानकमाकर्णितमाकर्णयतश्च मम लक्षितं दिनं / तेन युमत्ममोपे नागतोऽस्मि / मयाभिहितं / भद्र सुन्दरमनुष्ठितं / यतोऽतिरमणौयमिदं कथानक बुध्यत एव श्रोतुम् / अहो अत्यन्तदन्तः पापमित्रसम्बन्धी यतस्तस्य बालस्य स्पर्शनमम्पर्कादिहामुत्र च निबिडविडम्बनागर्भा दुःखपरंपरैव केवलं संपन्ना नान्यत्किंचनेति। विदूरेण चिन्तितं / बुद्धस्तावदनेन कथानकतात्पर्यार्थ इति / भविष्यति मे वचनावकाशः // इतश्च तत्रावमरे मत्तो नातिदूरे वर्तते वैश्वानरः / श्रुतं तेन मामकौनं वचनं / चिन्तितमनेन। अये विरूपको नन्दिबर्धनस्योल्लापो / व्युत्पादितप्रायोऽयमनेन विदुरेण। तन्त्र सुन्दर For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy