________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पमितिभवप्रपञ्चा कथा / मनौषिचरिते यत्नः कर्तव्यः सुखमिच्छता / यतोऽत्र बहवो जीवाः प्रायो मध्यमबुद्धयः / ते च सम्यगनुष्ठानात् संपद्यन्ते मनीषिणः // एतद्विज्ञाय भो भव्याः सर्वेऽपि गदिता मया। काय मदनुरोधेन वृत्तमस्य मनीषिणः // वर्जनौयश्च यत्नेन पापमित्रैः समागमः / यतः स्पर्शनमम्पर्कात् म बालो निधनं गतः // वर्जनेन पुनस्तस्य मनीषी सपरिस्फुटाम् / लोके शेखरतां प्राप्य जातोऽयं मोक्षमाधकः // कल्याणमित्रः कर्तव्या मैत्री पुंसा हितैषिणा। इहामुत्र च विज्ञेया मा हेतुः सर्वमम्पदाम् // दोषायेह कुसंसर्गः सुसंसर्गा गुणावहः / एतच्च दयमप्यत्र मध्यबुद्धौ प्रतिष्ठितम् // तथा हि। बालः स्पर्शनसंबन्धादेषोऽभूदुःखभाजनम् / युक्तोऽभूत्मतताताद एष एव मनौषिणा // तदिदं भो विनिश्चित्य बहिरङ्गान्तरैः सदा / न कार्या दुर्जनैः मङ्गः कर्तव्यः सुजनैः सह / ततश्च / इदमाकर्ण्य मौनौन्द्रं वचनं सुमनोहरम् / प्रबुद्धा बहवः सत्त्वा जाता धर्मपरायणाः // प्राप्ता देवा निजं स्थानं स्थितो राज्ये सुलोचनः / For Private And Personal Use Only