________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / BB7 भदन्त किं वा नो मन्ति मध्यबुद्धेः सहोदराः // सूरिणाभिहितं / बहुतमास्ते विद्यन्ते / यतः / ये बालचरिताः केचिन्मनौषिचरिताश्च ये / एतेभ्यो ये परे सत्वाः मर्व तेऽमुख्य सोदराः / / ये केचिच्छबलाचाराः ममा मध्यमबुद्धिना। सुताः मामान्यरूपायास्ते जौवा भुवनोदरे // मकाशादितराभ्यां ते गण्यमाना जगत्त्रये / अनन्तगुणितास्तेन प्रोका भूरितमा मया // राजर्षिरुवाच / भदन्त यद्येवं ततो मम चेतमि परिस्फरति / यथैवं व्यवस्थिते मत्येतदापत्रं यदत। भार्यात्रयेण जनितं जघन्योत्तममध्यमम् / तस्य कर्मविलासस्य जगदेतत्कुटुम्बकम् // सूरिरुवाच / "आर्य नेवात्र सन्देहः सम्यगार्यण लक्षितम् / मार्गानुमारिणी बुद्धिर्भवत्येव भवादृशाम् // तथाहि / जघन्यमध्यमोत्कृष्टाः सर्वयोनिषु जन्तवः // विद्यन्ते केवलं नृत्वे व्यकभावा भवन्ति ते / ततश्च / नरत्वेऽपि विनिर्दिष्टं व्याप्यैवेदं कुटुम्बकम् / यदत्र विदुषा कार्य तदिदानौं निबोधत // त्य क्रव्यं बालचरितं न कार्यस्तत्ममागमः / 43 For Private And Personal Use Only